पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६. ८.] प्रश्नोपनिषत् ६३ चाप्युपलभ्यते चे” ति सूत्रद्वयोदितत्वात् तदानीमपि सूक्ष्मरूपेणावस्थानस्य । अविभागस्तु नामरूपविभागाभावादुपपद्यते । अतो ब्रह्मकारणत्वं संभक्त्येवेति । एवं “ अधिकोपदेशात्तु बादरायणस्यैवं तदर्शनात्, भेदव्यपदेशाच्चान्यः, सुषुप्त्युत्कान्त्योर्भेदेन, उभयेऽपि हि भेदेनैनमधीयत" इत्यादिन्याया प्रकुष्येयु- रित्यलं प्रपञ्चेन ॥ ८॥ क्षेमाय यः करुणया क्षितिनिर्जराणां भूमावजृम्भयत भाष्यसुधामुदारः। वामागमाध्वगवदावदतूलवातो रामानुजः स मुनिराद्रियतां मदुक्तिम् ।। इति प्रश्नोपनिषद्भाष्ये षष्ठप्रश्नभाष्यम् । इति श्रीमत्ताताचार्यचरणारविन्दचञ्चरीकस्य वात्स्यानन्तार्यपाद- सेवासमधिगतशारीरकमीमांसाभाष्यहृदयस्य परकाल. मुनिपादसेवासमधिगतपारमहंस्यस्य श्रीरङ्गरामानुजमुनेः कृतिषु प्रश्नोपनिषत्प्रकाशिका। येनोपनिषदां भाष्यं रामानुजमतानुगम् । रम्यं कृतं प्रपद्ये तं रङ्गरामानुजं मुनिम् ।। -ocootba- आचार्येण तथोक्तास्ते तृप्ता बभूवुः, यावदाचार्यस्य ज्ञानं तत् सर्वमस्मभ्यं दत्तमिति । ततस्ते तं यथार्हममिपूज्य प्रत्यगच्छन् । तत्र वाचिकपूजाप्रकारो मनाक् प्रवर्श्यते-त्व हि न इति । त्वमेव पिता । तरतमभावपरीक्षायां अन्यस्य पितुः पितृत्वमेव नास्तीति वकव्यं भवतीति मामः । पातीति हि पिता। यः शरीरजन्म दत्वा विविधदुःखानुमवं कारयति स कथमस्मान् पातीत्युच्यते । त्वं तु अस्माकं विद्याजन्म दत्तवान् । इतः परं दुःखानुभवकथैव नास्ति । अवि. च्छिन्ननिरतिशयानन्दानुभवस्तु भविष्यति । एवं त्वं पासि | तस्मात् त्वमेव पितेति ।