पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६. ५.] प्रश्नोपनिषत् घटादीनां मृदिव उपादानं भवति, येन तत एषां सृष्टिः स्यात् । सत्यम् । इदं त्विह बोध्यम् । प्राणादनन्तरप्रधानभूता श्रद्धा । तदभावे जीवतोऽपि पुरुषस्य यस्य कस्यापि कार्यस्यानिवृत्तेः । तस्मात् प्राणत: श्रद्धासृष्टिरुच्यते । अत्र तु उक्तरीत्याऽनुपपत्तिशङ्का जायेत कथं प्राणात श्रद्धा- सृष्टिरिति । एतत्परिहाराय तात्पर्य विवरीतुमुपरि स्वादि ममोन्तमुच्यते। अयमत्र परिहारः । प्राणसृष्टिर्नाम पञ्चभूतात्मक शरीरमुत्पाद्य तत्र चक्षुरादिभिरिन्द्रियैर्मनसा च सह तस्य पञ्चवृत्ति- तयाऽवस्थापनमेव । एवमवस्थापितः सः सर्वश्रेयःप्राप्तिसाधनशरीरधारणोपयुक्ताहारविषयां श्रद्धां जनयति । इत्थं पाणात् श्रद्धासृष्टिरिति । एवं मनोन्तस्य सृष्टिः प्राणसृष्टन्तर्गततया श्रद्धातः पूर्वभाविनी । अन्नादिसृष्टिस्तु पश्चाद्भाविनीति विभागव्यञ्जनाथैव अन्नमिति पूर्वोत्तरवत् सकृन्निर्देशमात्रेणानपरम्य पुनरन्नादिति हेतुतया निर्देश आदृतः । अन्नविरहे हि वीर्यादिकं न भवेत् । तस्मादन्ने श्रद्धायाः प्रथमप्रवृत्तिः । इदमन्नस्य वीर्यादिहेतुत्वं प्राणस्य तद्धेतुत्वं न निवारयति । द्वारहेतुत्वस्य द्वारिहेतुत्वाबाधकत्वादिति चात्रावधेयम् । इदं चेदानीं सुगम यद् वायुराप इत्यादि नावश्यं द्वितीयान्तङ्गीकर्तव्यम् । किन्तु स्वादि नामान्तं सर्वं प्रथमान्तमेव । अन्वयश्चैवम् । प्राणात् श्रद्धामसृजत । कथमिति चेत् - तस्माद्वा एतस्मादात्मन आकाशः सम्भूत इत्युक्तरीत्या प्रथम तावदाकाश उत्पद्यते । ततः क्रमेण पृथिव्यन्तानि महाभूतानि । एमिः पञ्चभिर्भूतैरारब्धं शरीरं न परं प्राणेन अपि तु इन्द्रियैर्मनसा च सहितो जीवात्माऽधितिष्ठति । ततः श्रद्धा भवति । एवं श्रद्धा ससर्जेति । एवं नव कला उक्ताः । अथ सप्तोच्यन्ते । ततोऽन भवति । श्रद्धाद्वारा प्राणादित्यर्थतो लभ्यते । अन्नाद् वीर्य भवति । तपो भवति । मन्त्रा भवन्ति । कर्म मवति । लोका भवन्ति । नाम च भवतीति । स्वर्गादिनामानीति । अत्र नामेति न सर्वं नाम विवक्षितम् | अपि तु कर्मफलभूत- स्वर्गादिसम्बन्धिनाममात्रम् । एतद्बोधनायैव लोकेषु चेति पुनर्लोकोपादानमित्यभिप्रायः । ननु जीवात्मनो यच्छरीरारम्भकं यञ्च तस्योपकरणं यच्च तत्साध्यं कर्मफलादि तस्य सर्वस्य तत्कलात्व. मुपपन्नम् । तत्सम्बन्धित्वात् । स्वर्गादिनाम्नस्तु तत्सम्बन्धविरहात् तत्कलात्वं न युज्यत इति चेन्न । कर्मप्रयोगे उच्चार्यमाणानां मन्त्राणमिव स्वर्गसि ध्द्यर्थ अनेन कर्मणा गव्य' इति सङ्कल्पे अन्यत्र च कीर्त्य॑मानस्य फलनाम्नः तत्सम्बन्धसत्त्वेन तत्कलात्वोपपत्तेः । नाम चेति चकार: कलान्तरसमुच्चयार्थ इति स्पष्टम् । लोकेषु चेत्ययं तु चकारः कलापरिगणनसमाप्तिधोतनार्थः । तद्धेतुभूतादृष्टेति । एतेन ‘स ईक्षाञ्चक्रे, स प्राणमसृजत" इत्यादिकं जीवात्मनः तादृशसङ्कल्पवत्वाद्यारोपेणोक्तमित्यभिप्रायः सूचितः । स यथेमा नद्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छन्ति भिद्यते तासां नामरूपे समुद्र इत्येवं प्रोच्यते एवमेवास्य परिद्रष्टुरिमाः पोडश कलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति 8