पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीरङगरामानुजभाष्ययुक्ता [६.५. भिद्यते तासां' नामरूपे पुरुष इत्येवं प्रोच्यते स एषोऽकलोऽमृतो भवति । तदेष श्लोकः ॥ ५॥ अथ परमात्मन ईदृक्त्वाभावादकलत्वं, तद्वारा मुमुक्षुवेद्यत्वञ्चोपपादयति-स यथेमा नद्य इति । यथा प्रस्रवन्त्यो गङ्गाद्या नद्यः समुद्रायणा:-अत्र अयन- शब्देनाधारमुखेनात्मत्वमुच्यते-समुद्रात्मिकाः, समुद्रापृथक्स्थितिप्रतिपत्तियोग्या भूत्वा समुद्रं प्राप्य अस्तं गच्छन्ति अदर्शनं यान्ति ; न तु समुद्रे वृद्धयादिलक्षणं विकारमुत्पादयितुं प्रभवन्ति ; तासां च गङ्गायमुनादीनां यानि · गङ्गायमुनादीनि नामानि यानि च शुक्लकृष्णादिरूपाणि प्राक्तनानि तानि भिद्यन्ते तत्प्रवेशा- नन्तरं न भवन्ति ! नामान्तरं रूपान्तरश्च भवतीत्यर्थः । तदेव दर्शयति—समुद्र इत्येवं प्रोच्यत इति । तत् प्रविष्टं नदीजातं सर्वं समुद्र इत्येव प्रोच्यते, न तु गङ्गायमुनेति । स यथा स दृष्टान्तो यथेत्यर्थः । एवमेव अस्य परिद्रष्टुः अनुभ- वितुः भोक्तुर्जीवस्य भोगोपकरणभूता इमाः षोडशापि कलाः निरुपाधिकपुरुषशब्द- वाच्यं वासुदेवं प्राप्य अस्तं गच्छन्ति । यथा शिलातलं प्राप्य क्षुरधाराः कुण्ठीभवन्ति तथा भोगाधायिका न भवन्तीत्यर्थः । तत्र हेतुमाह-पुरुषायणा इति । "पुरुष- संकल्पाधीनस्वरूपस्थितिप्रवृत्तिका इत्यर्थः । तासां कलानां जीवविषये भोग्यभोग- स्थानभोगोपकरणत्वादिनामरूपमेदवत् परमात्मविषये भोगस्थानत्वादिनामरूपे न स्तः । तदेव दर्शयति--पुरुष इत्येवमिति । पुरुषास्थितिप्रतिपत्तिकतया पुरुष इत्येवं प्रोच्यते, न तु तद्भिन्नत्वेन तद्भोग्यभोगस्थानत्वादिना तत्कला प्रोच्यते। स एष इति। तस्मात् परमात्मनः कलाभोक्तत्वाभावदकल इत्येवोच्यते। अत एवामृतश्च । मरणस्य भोक्तृत्वरूपकलासंबन्धाधीनत्वादिति भावः । तदेष इति । तत परमात्मनः स्वरूपमधिकृत्य वक्ष्यमाणः श्लोकः प्रवृत्त इत्यर्थः ॥ ५ ॥ ईदृक्त्वाभावादिति । प्राणाद्यधीनकर्तृत्वभोक्तृत्वाद्यभावादित्यर्थः । तद्द्वारा अकलत्वद्वारा। मुमुश्विति । षोडशकलपुरुषप्रश्नः न तत्स्वरूपव्युत्पत्तिलाभमात्रोद्देशेन कृतः । अपि तु 1. 'चासो'। 2.प्र. अत्र' नास्ति। 3. प्र. 'समुद्रास्मिकाः' नास्ति । 1. ना. पू. '... प्रतिपत्तिकाः 5. प्र. पू. 'तासां च गङ्गायमुनदीनि नामानि यानि'। 5. पू. तत्प्रवेशानन्तरं न भवन्तीत्यर्थः। प्र.ना. 'तत्प्रवेशानन्तरं नामान्तर रूपान्तरं च भवतीत्यर्थः। 7. ना. पू. 'तत्र'। 8. 'पुरुषाधीन'। 9.पू. 'तत्कलादित्वेन' । ना. दिना प्रोच्यते। "