पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीरङ्गरामानुजभाष्ययुक्ता [६.४. व्रतष्च स्वोपकाराभिसंधिपूर्वकं जीवस्य प्राणादिस्स्रष्टृत्वात् तद्भोक्तृत्वं संभवति । परमात्मनस्तु " न च मां तानि कर्माणि निबध्नन्ति धनञ्जय । उदासीनावदासीन- मसक्तं तेषु कर्मसु ।। न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा" इत्युक्तरीत्या स्वोपकाराभिसंधिपूर्वकस्रष्टृत्वाभावान्न तस्य षोडशकलाभोक्तृत्वमिति भावः ॥ ३ ॥ मदुत्क्रान्तिप्रतिष्ठासहभूतेति । कस्मिन्नुत्कान्त इत्यादेः किमुत्क्रान्त्यधीना मदु स्क्रान्तिरित्यादिर्नार्थः । अपि तु, अहमुत्क्रान्तो भविष्यामि । तदा मया सह क उत्क्रान्तो भविष्य- तीति । मया सह कस्मिन्नुकान्ते अहमुत्कान्तः । कस्य मम च उत्क्रमणकालं एक इति यावत् । येन विना मम शरीराधिष्ठानं न सम्भवति स क इति पर्यालोचयामासेत्युक्तं भवति । स प्राणमसृजत प्राणाच्छद्धां खं वायुर्ज्योतिरापः पृथिवीन्द्रि- यम् । मनोऽन्नमन्नाद्वीयं तपो मन्त्राः कर्म लोका लोकेषु च' नाम च॥४॥ स प्राणमसृजतेत्यादि । सः जीवः एवं पर्यालोच्य प्रथमतः स्वोत्क्रान्ति- प्रतिष्ठासहभूतोत्क्रान्तिप्रतिष्ठं मुख्यप्राणं सृष्टवान् । तस्मात् श्रद्धां आस्तिक्यबुद्धिं पञ्च महाभूतानि, वागादीन्द्रियं, मनः, व्रीह्यादिरूपमन्नं, तदायत्तं शरीरेन्द्रियसामर्थ्यं, शरीरशोषणादिलक्षणं तपः, ऋभ्यजुस्सामादीन् मन्त्रान्, ज्योतिष्टोमादीनि कर्माणि, कर्मफलभूतान् स्वादीन् लोकान्, तेषु लोकेषु स्वर्गादिनामानि सृष्टवानित्यर्थः । यद्यपि षोडशकलास्रष्टुत्वं परमात्मन एव, तथापि तद्हेतुभूतादृष्टारम्भककर्मकतृत्वेनाय स्रष्टृत्ववाद इति द्रष्टव्यम् । ततश्च स्वभोगोपकारिकाः षोडशापि कलास्तद्धेतुभूता- दृष्टारम्भककर्माणि कृत्वा सृष्टवान् । अतस्तद्भोक्तृतया पोडश कलत्वं जीवस्येति यावत् ॥ ४ ॥ स प्राणमिति तछब्दः इक्षितवन्तं पुरुषं परामृशति । तथा इक्षितवान् पुरुषः प्राणमसृजतेत्यर्थो भवति । इममर्थ भजयन्तरेणाह--- एवं पर्यालोच्येति । तदायत्तमिति । प्राणात् अन्नान्तमसृजत । वीर्यादिकं तु अन्नादसृजतेति नात्र योजना कार्या। अपि तु एतदपि प्राणा देवेति भावः । मन्त्रानिति । वायुः आप: पृथिवी मन्त्रा: लोकाः, इति सर्वत्र व्यत्ययेन द्वितीयार्थे प्रथमेति भावः । ननु प्राणात् श्रद्धादिसृष्टिरिति बाधितमेतत् । न हि प्राण एषां 1.प्र. वर्ज अन्यत्र 'च' नास्ति। प्र.ना. 'जीवस्योपपाथ' इति दृश्यते। इदमुत्सरावतारिफया एकवाक्यतां याति ।