पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६. २-३.]
५५
प्रश्नोपनिषत्

जीवो वेति । परात्परं पुरिशयं पुरुषमीक्षत इति पूर्वत्र पुरुष प्रस्तुत । किं स एवायं राजकुमारेण पृष्टः षोडशकलः पुरुषः ? उत जीवः ? यदि स एव तस्य निष्कलत्वं कथं ब्रह्मवादिभिरुच्यते । यदि जीवः तर्हिं कथं सर्वाधारतां परमपुरुषस्येत्येवनादिविकल्पपरिहारेण निर्णयार्थ इति ।

एोन प्राप्यप्रापक्भूतस्य परमपुरुषस्य खरूपनिरूपणमेतत्क्षार्थ इति सूचितम् ।

तस्मै स होवाच । इहैवान्तशरीरे सोम्य स पुरुषो यस्मिन्नेताः षोडश कलाः प्रभवन्तीति ॥ २ ॥

तस्मै स हेति । स्पष्टोऽर्थः । इहैवन्तश्शरीरे सोम्य स पुरुषो यस्मिन्नेताः षोडश कल:अभवन्तीति। सौम्य प्रियदर्शन, स पुरुषः' इहैवान्तश्शरीरे, वर्तत इति शेषः । अनेन शरीरपरिच्छिन्नप्रदेशमांत्राधारत्वोक्तया जीव इत्युक्तमुक्तं भवति । ननु जीवस्यैव कथं षोडशकलत्वं षोडशकलाधारत्वतस्रष्टृत्वयोः परमात्मन्येव पुष्क लत्वादित्याशंक्याह--- यस्मिन्निति । यस्मिन् पुरुषे एता वक्ष्यमाणाः प्राणाद्या नामान्ताः षोडश कलाः स्वसंसर्गप्रयुक्तसुखदुःखादिभोगाख्यमुपकारं कर्तु प्रभवन्ति समर्था भवन्तीत्यर्थः । ततश्च षोडशकलाभोक्तृत्वमेव षोडशकलत्वम् । तच्च जीव स्यैवेति भावः ।। २ ॥

स ईक्षाञ्चक्रे । कस्मिन्नहमुत्क्रान्त उत्क्रान्तो भविष्यामि । कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीतेि ।। ३ ।।

ननु षोडशकलासर्गहेतुत्वे जीवपरमात्मनोरविशिष्टे सति' तद्भोक्तृत्वं जीवस्यैव न परमात्मन इत्यत्र किन्नियामकमित्याह--स ईक्षाञ्चक्र इत्यादि । ‘इदं वाक्यं जीवाभिसंधेिप्रकारप्रदर्शनपरम् । “सोऽध्यक्षे तदुपगमादिभ्य ” इति भाष्ये तथोक्तत्वात् । मदुत्क्रान्तिप्रतिष्ठासहभूतोत्क्रान्तिप्रतिष्ठः को वेति पर्यालोचितवानित्यर्थः ।


1. प्र. पू. “सौम्य...पुरुषः ' नास्ति । 2. ना. पू. 'संसर्ग ' । 3. प्र. पू. 'सति' नास्ति । 4. ना. पू. “सोऽध्यक्षे तदुपगमादिभ्य इति भाष्ये प्रतिष्ठा च जीवेन सह श्रूयते कस्मिन्नहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति' इत्युक्तत्वादिदं वाक्यं जीवामिसन्धिप्रकार प्रदर्शनपरम्” ।