पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रश्नोपनिषत् महि । पूर्वत्र तावत् स यद्येकमात्रमभिध्यायीते प्रणवस्य कर्मत्वमुक्तम् । अत्र तु द्विमात्रँेति करणत्वम् । उत्तरत्र परं पुरुषमिति कर्मकारकं श्रुत्या निर्दिष्टम् । अत्र तु न किशित । तस्मादु- भयवैलक्षण्यात् स्थितमनतिक्लेशेन योजितमिति । यः पुनरेतं त्रिमात्रेणैवोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत स तेजसि सूर्ये संपन्नः । यथा पादोदरस्त्वचा विनिर्मुच्यत् एवं ह वै स पाप्मना विनिर्मुक्तः ससामभिरून्नयते ब्रह्मलोकं स एतस्माज्जीवन धनात् परात्परं पुरिशयं पुरुषमीक्षते तदेतौ श्लोकौ भवतः ॥ ५॥ यः पुनरेतमिति । यस्तु एकमात्र द्विमात्रत्वदशायामर्वाचीनफलसाधनेनै - तेनैवाक्षरेण परमात्मानमभिध्यायति आभिमुख्येन ध्यायति' निरन्तरं ध्यायतीत्यर्थः । स उपासकस्तेजोमंडले सूर्य संगतःसन् , उदरमेव पादो यस्य सः पादोदरः, सर्प इति यावत् । यथा सो जीर्णत्वचा विनिर्मुक्तो भवति, एवं पाप्मना विनिमुक्तःसन् भगवल्लोकं वैकुण्ठं सामभिः गीतिप्रधानमन्त्रैः उन्नीयते । अत्र व्यासार्यै: स पाप्मना विनिर्मुक्त इति तच्छन्दान्तरश्रवणात् ससामभिरित्यैकपद्यमाश्रित्य सामगान- सहितैरिति वा सान्त्ववचनसहितैः पुरुषैरिति वा अर्थ इतीक्षतिकर्माधिकरणे व्याख्यातम् । स एतस्मादिति । कर्मनिमित्तदेहिन एव जीवघनशब्दार्थतया ईक्षतिकर्माधिकरणभाष्ये वर्णित्वात् ' जीवघनशब्देन 'संसारिमण्डलमुच्यते । "भूर्तौ घन " इति काठिन्यशब्दितभूतौ घनशब्दस्य निपातितत्वात् देहद्वारत्वादा- स्मनि काठिन्यस्य घनशब्दो देहिपर एव । तस्मात्परः परिशुद्धात्मा। तस्मादपि परभूतं परिशयं "पू:प्राणिनःसर्व एव गुहाशयस्यति सर्वेषु प्राणिषु' अन्तरात्मतया शयानं " भगवानिति शब्दोऽयं तथा पुरुष इत्यपि । निरुपाधी च वर्तेते वासुदेवे सनातने” इति नित्याधिक पुरुषशब्दवाच्यं भगवन्तं वासुदेवमीश्नत इत्यर्थः । अत 1. - ‘एकमात्रत्व' आ. ना. 'आमिमुख्येन ध्यायति' नास्ति। 3. मा. ना. पू. 'अर्य इति वर्णितम् । 4.आ. ना. पू. “ यस्य हि कर्मनिमित्त देखिवं स जीवधन इत्युच्यते । चतुर्मुखस्यापि तच्छ्यते। यो मह्माण विदधाति पूर्वमिति, इत्यादिमाच्योक्तेः"। .. पू. 'संसार। था. ना. 'श्रात्मसु'। 7