पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५०
५. ६.
श्रीरङ्गरामानुजभाष्ययुक्ता

एव “ससामभिरुन्नीयते ब्रह्मलोक " मित्यत्र ब्रह्मलोकशब्दस्य सत्यलोकपरत्वशंका व्युदस्ता' । तद्गतानां परवासुदेवेक्षणासंभवादिति द्रष्टव्यम् । तदेताविति । तत् ऑकारध्यानमधिकृत्य वक्ष्यमाणश्लोकौ प्रवृत्तावित्यर्थः ॥ ५ ॥

आभिमुख्येनेति । इदं इतः पूर्वप्रयोगेष्वप्यनुसन्धेयम् । तेजसीति । तेजोरूप सूर्यप्राप्यनुगुणेन अवस्थाविशेषेण सम्पन्नो भवतीत्यर्थ । कोऽसाघवस्थाविशेष इति चेत् अत्रोक्तं यथा पादोदर इत्यादि । पूर्वोत्तराघविनाशाश्लेषवत्त्वमेव तदित्युक्तं भवति । यद्यपि भाष्ये प्रायणानन्तरभाविसूर्यप्राप्यादिपरतयेदं प्रकरणं नीतमिति भाति तथापि इदमप्याभिप्रायिकतया द्रष्टव्यम् । तच्छब्दान्तरेति । एतेन एकवाक्यतापक्षमाश्रित्येदमिति स्पष्टम् । तेन सूर्ये सम्पन्नो भवति, पाप्मना विनिर्मुक्तो भवति, इति पृथग्वाक्यत्वे सः सामभिरिति पृथक्पदत्वमेयेति ज्ञापितम् । तदित्यव्ययं लुप्तसप्तमोकम् । तत्रेत्यर्थः । तद्विवृतं ओङ्कारध्यानमधिकृत्येति । त्रिमात्र एवोङ्कार इह विवक्षितः ।

तिस्रो मात्रा मृत्युमन्त्यः प्रयुक्ता अन्योन्यसक्ता अनविप्र युक्ताः ! क्रियासु बाह्याभ्यन्तरमध्यमासु सम्यक् प्रयुक्तासु न कम्पते ज्ञः ।। ६ ।।

तिस्रो मात्रा इति । अविप्रयुक्ता न भवन्तीत्यनविप्रयुक्ताः । विप्रयुक्ता इति यावत् । अत्यन्तदुतोच्चारणेन अन्योन्यसक्ततया, अतिविप्रकृष्टकालतया अत्यन्तविप्रयुक्ततया वा प्रयुक्तास्तिस्रो मात्राः मृत्युमन्त्यः मृत्युप्रदाः । अनर्थावहा इति यावत् । मृत्युमत्य इति पाठेऽपि स एवार्थः । यज्ञादिका बाह्याः क्रियाः । आन्तराः मानसक्रियाः । मध्यमा वाचिकजपरूपाः । आसु क्रियासु त्रिसृषु मात्रासु सम्यक् अत्यन्तसंयोगविप्रयोगमन्तरेण प्रयुक्तासु सतीषु ज्ञः तप्रयोगाभिज्ञः पुमान् न कम्पते फलान्न च्यवत इत्यर्थः ॥ ६ ॥

तिस्र इति । याभिर्मात्राभिः प्रणवस्य त्रिमात्रत्वं भवति तस्तिस्रो मात्रा इत्यर्थः । अनेन मन्त्रेण प्रणवोच्चारणे अतिद्रुतत्वातिमन्दत्ववर्जनरूपमङ्गं विहितमिति बोध्यम् ।


1. प्र.'शङ्काऽप्युदस्ता'। आ.न.पू. “चतुर्मुखलोकपरत्वशङ्का व्युदस्ता। चतुर्मुखलीकगतानाम् ” ।