पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीरङ्गरामानुजभाष्ययुक्ता [५.४. अपरं ब्रह्मोपास्त इति । वाचकाभिध्यानं हि वाच्याभिध्यानायैव । अतोऽस्मिन्नेवार्यें पर्यवसानमिति भावः । अपरे ब्रह्म स्वस्वरूपं वा पृथिवीस्थानकदेवताविशेषं वा । संवेदित इति विद लाभ इत्येतस्मात् णिचि कर्मणि क्तप्रत्यये रूपम् । अत आह–लब्धसत्ताक इति भुवीति । येन शरीरेण विशिष्टः ध्यानं करोति तस्मिन् शरीरे वर्तमान एव मनुष्याणां मध्ये श्रेष्ठो भवति ध्यानमहिम्ना | उत्तममनुष्यजन्मपरिग्रहामुकूलमवस्थाविशेषं प्राप्नोतीति यावत् । मरणानन्तरं हस्योङ्कारसम्बन्धिन्य ऋचः तं पुनर्मनुष्यलोकं प्रापयन्ति । तत्र साक्षात् मोक्षो- पायभूतं विद्याविशेषं अविकलमनुष्ठाय मुक्तो भवतीत्यभिप्रायः । । अथ यदि द्विमात्रेण मनसि संपद्यते सोऽन्तरिक्षं यजुर्भ्रून्नी- यते । स सोमलोकम् । स सोमलोके विभूतिमनुभूय पुनरा- वर्तते ॥ ४॥ अथ यदि द्विमानेणेति । द्विमात्रेणापरब्रह्मवाचकेन प्रणवेन यस्य मनस्य- परब्रह्मध्यानं संपद्यते, स. अन्तरिक्षाश्रितं सोमलोकं द्विमात्रोपासकः पुमान् यजुर्मन्त्रैरुन्नीयते । अत्रान्तरिक्षसोमलोकशब्दः ऊर्ध्वलोकमात्रो पलक्षकः आमुष्मिक- मात्रपरः' इतीक्षतिकर्माधिकरणभाष्ये समर्थितम् । 'आमुष्मिकैश्वर्यमनुभूय तत्पुण्या- वसाने पुनरावर्तते ॥ ४ ॥ मनसि किं सम्पद्यत इति जिज्ञासायां अर्थलभ्यं पूरयति-अपरब्रह्मध्यानमिति नन्त्र सम्पद्यतेः ध्यानं कर्तृ इत्येतदनुपपन्नम् । पूर्ववाक्ये यथा जगत्यामभिसम्पद्यत इति उपासितुः पुरुषस्यैव प्रायणात्पूर्वभावि किश्चिदवान्तरफलमुक्तम् : उत्तरवाक्ये च स तेजसि सूर्ये सम्पन्न इति किञ्चिदुच्यते तथाऽत्रापि उपासितुरेव मनसि सम्पत्तिरुच्यत इति वाच्यम् । मनसि सम्पत्तिर्नाम मनम्सम्बन्धिलोकप्राप्त्यनुगुणोऽवस्थाविशेषः । तस्मादुपासितैव सम्पद्यतेः कर्ता । वाक्ययोजना चैवम् ... अथ यदि द्विमात्रेणाभिध्यायं त स तेन मनसि सम्पद्यत इति - इति चेत् काममेवमस्तु । काऽस्माकं हानिः । कुत्रो नैवं व्याख्यातमिति चेत् श्रोतुर्बुद्धि- क्लेशपरिहारायैव । एवं व्याख्यातव्ये अन्यथा कृतं व्याख्यानं सावद्यमिति चेत् तन्न । न हि सर्वात्मना पूर्ववाक्यस्य उत्तरवाक्यस्य वा सारूप्यमत्रास्ति येन तथैव व्याख्यातव्यमिति निर्बध्ये- 1.आ.ना. 'स'नास्ति । '.आ. पृ. 'देवलोकम् । 3.प्र.पू. 'उर्वमात्र ५. मा. ना. पू. 'आमुष्मिकमानपरः। अत एवेक्षति- कर्माधिकरणमाष्ये यदपरं कार्य ब्रह्म निर्दिष्टं तदैहि कामुष्मिकत्वेन द्विधा विमन्य एकमात्रं प्रणवमुपासीनानां ऐहिक मनुष्यलोगवाप्तिं फलमभिधाय द्विमानमुपा- सीनानामामुध्मिक अन्तरिक्षशब्दोपलक्षितं फलं अभिधायेत्युक्तम्"। 5. A. पू, 'बमुष्मिनेश्वयम्' ....