पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५.२-३
४७
प्रश्नोपनिषत्

तस्मै स होवाच । एतद्वै सत्यकाम परञ्चापरञ्च ब्रह्म यदोङ्कार - स्तस्माद्विद्वानेतेनैवायतनेनैकतरमन्वेति ॥२॥

तस्मै स होवाचेति । स्पष्टः अर्थः । (एतद्वा इति) । हे सत्यकाम एतदेव परञ्चापरञ ब्रह्म , उभयवाचकमित्यर्थः । वाच्यवाचकभावनिबंधनं सामानाधिकरण्यमितिक्षतिकर्माधिकरणे व्यासार्यैर्व्याख्यातम् । किं तदित्यत्राह – यदोङ्कार इति । तस्मादिति । तस्मादुपासक एतेनैव ॐ काररुपेण मार्गेण एकतरं परमपरं वा ब्रह्मान्वेति उपास्त इत्यर्थः ॥२॥

उपस्त इत्यरर्थ इति । यद्यपि कं लोकं प्राप्नोतीति प्रश्रानुगुण्येन एकतरमन्वेति अपरब्रह्मलोकं वा परब्रह्मलोकं वा प्राप्नोतीत्येवातर्थो वक्तुमुचित इति भाति तथापि ओङ्कारब्रह्मणोः सामानाधिकरण्येन वाच्यवाचकभावस्य प्रतीतत्वात् वाचककरणिका वाच्यकर्मिका क्रिया उपासनमेव भवितुमर्हतीति औचिव्यात् प्रतीतेरेवमर्थ उक्तः । अन्वित्युपसर्गस्वारस्याच्च । प्राप्तिविवक्षायां हि एकतरमेतीत्येवाश्रोष्यत । प्रश्नस्य साक्षादुत्तरं तु 'मनुष्यलोकं, सोमलोकं, ब्रह्मलोकं' मित्युपरिष्टात् तत्र तत्रेति ध्येयम् ।

स यद्येकमात्रमभिध्यायीत स तेनैव संवेदितस्तूर्णमेव जगत्याममिसंपद्यते तमृचो मनुष्यलोकमुपनयन्ते स तव तपसा ब्रह्मचर्येण श्रद्धया संपन्नो महिमानमनुभवति ॥ ३ ॥

स यद्येकमात्रमिति । सः उपासकः यद्येकमात्रं ह्र्स्वं प्रणवमपरब्रह्मवाचकमभिध्यायीत अपरब्रह्मवाचकेन ह्र्स्वेन प्रणवेन योडपरं ब्रह्मोपास्ते, सः तेनैव एकमात्रोङ्कारकरणकापरब्रह्मध्यानेनैव संवेदितः लब्धसत्तावः जगत्यां भुवि अभि अभ्यर्हितः श्रेष्टःसंपद्यते । तं ऋङ्मन्त्रा मनुष्यलोकं प्रापयन्ति। सः मनुष्यलोकं नीतः तपसा अनशनादिना ब्रह्मचर्येण मैथुनवर्जनेन श्रद्धया आस्तिक्यबुद्धया यदि संपन्नो भवति तदा महिमानं श्रेयस्साधकं ब्रह्मोपासनमनुतिष्टतीत्यर्थः । न चैचो ह्र्स्वाभावात् कथमोङ्कारस्य ह्र्स्वत्वमिति शङ्कनीयम् । न्यूङ्खे ह्र्स्वस्य ओङ्कारस्य दर्शनात् ॥ ३ ॥


1. आ.ना.पु."...सामानाधिकरण्यम् । तथैव व्यासार्यैरीक्षतिकर्माधिकरणे व्याख्यत्तत्वात् । 2. '.प्र.पु.'लोके' ।