सामग्री पर जाएँ

पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४६ श्रीरङ्गरामानुजभाष्ययुक्ता "सर्वेषु लोकेषु कामचारो भवती " ति श्रुत्युक्तरीत्या काम्यमानसर्वलोकसञ्चारी भक्तीत्यर्थः ॥ ११॥ इति प्रश्नोपनिषद्भाष्ये चतुर्थः प्रश्नः पर्यवसानगत्या सर्वां भवति सर्वमेवाविवेशेस्यनयोरैकार्थ्यं बोध्यम् । इति चतुर्थप्रश्नांटप्पणी अथ पञ्चमः प्रश्नः हरिः ओम् । अथ हैनं शैब्यःसत्यकामः पप्रच्छ । स यो ह वै तद्भगवन्मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत कतमं वाव स तेन लोकं जयतीति ॥१॥ अथ हैनं शैब्य इति । स्पष्टाऽर्थः । हवा' इति प्रसिद्धयतिशये । तदित्येतदव्ययम् । स इत्येतदधिकारिसामान्यपरम् । अयमर्थः । हे भगवन् पूजार्ह यः अधिकारी मनुष्याणां मध्ये मरणान्तमोङ्कारमभिध्यायति' स कतमं लोकं तेन ओङ्कारेण प्राप्नोतीत्यर्थः । वावशब्दोऽवधारणे । प्रसिद्धौ वा ॥ १ ॥ अथ पञ्चमः प्रश्नः अव्ययमिति। तमिति ओङ्कारविशेषणतया योज्यमित्याशयः । अधिकारि सामान्येति । यो ह वा इति श्रुतस्य यच्छब्दस्य प्रतिसम्बन्धी तच्छब्दः कतमं वाव स तेनेत्युत्तरत्र श्रूयते । अतोऽस्य तच्छब्दस्यान्येऽर्थो वाच्यः । तेन च प्रकृता गुणेन भाव्यम् । तादृशश्वार्थः अधिकारीत्ययमेवेति भावः । अस्ति सः तादृशः कश्चित् मनुष्येषु यो मरणान्त- मोङ्कारमभिध्याधीत । स कतमं तेन लोकं जयतीति च योजनया प्रथमतच्छब्दस्यार्थवत्ता सुवचेति ज्ञेयम् । अवधारण इति । प्राप्या हि लोका बहवः सन्ति । तत्र कमेव प्राप्नोतीति प्रश्न इति । प्रसिद्धाविति । कञ्चन लोकं प्राप्नोति स्थितमेतत् । सर्वविदितामेति यावत् । क स लोक इति तु प्रकृते जिज्ञास्यत इति : प्रश्नचतु,येन तत्त्वनिर्णयः कृतः । इद हितपुरुषार्थोपदंश इति सतिबोध्या । 1.प्र. इदं वाक्यं नास्ति । पू. तदन्ययम', ३... 'अयमर्थः' नास्ति। 1.प्र. ध्यायति । 2.प्र. म इत्यधि