पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२
३-४.
श्रीरङ्गरामानुजभाष्ययुक्ता

आत्मन एवैष प्राणो जायते । यथैषा पुरुषे छायैतस्मिन्नेतदाततं मनोकृतेनायात्यस्मिञ्छरीरे ॥ ३ ॥

प्रथमप्रश्नस्योत्तरमाह-आात्मन एवैष प्राण इति । परमात्मन एवैष प्राणो जायत इत्यर्थः । “ एतस्माजायते प्राणो मनः सर्वेन्द्रियाणि च' इति श्रुतेरिति द्रष्टव्यम् । “कथमायात्यस्मिन् शरीरे" इत्यन्योतरनाह–यथैषा पुरुषे छायेति । यथा पुरुषे गच्छति छायापि सहेव गच्छति, न हि छायागमने सामग्रयन्तरमस्ति, एवमेतस्मिन' पुरुषे जीवे एतन्मनः अकृतेन अयत्नेन,कृतशब्दोऽयत्नार्थक:, यत्नमन्तरेण, आततं अविनाभावेन संश्रितम् । एवमेव प्राणेोऽप्यकृतेन अयत्नेन अस्मिन् शरीरे आयाति । मनःप्राणयोः पुरुषच्छायावत् पुरुषाविनाभूतत्वात् पुरुषेण सहैव प्राणस्य सम्बन्धः । अतः प्राणगमने मनस इव न पृथकारणमपेक्षितमिति भावः ।। ३ ॥

मनोऽपि दृष्टान्ततयोपात्तमिति ज्ञापयन् योजयति-एवमिति । यथा चेत्यर्थः ।

यथा सम्राडेवाधिकृतान् विनियुङ्क्ते एतान् ग्रामानेतान् ग्रामानघितिष्ठस्वेत्येवमेवैष प्राण इतरान प्राणान् पृथक्पृथगेव सन्निधत्ते ॥ ४ ॥

"आत्मानं वा प्रविभज्य कथं प्रतितिष्ठत"इति तृतीयप्रश्नो'त्तरमाह्- यथा सम्राडेवेति । यथा राजा कार्यप्वधिकृतान् स्वसेवकान् इमान् ग्रामानधितिष्ठ इमान् ग्रामानधितिष्ठेतेि पृथक्पृथग्विनियुज्य तन्मुखेन तेषु ग्रामेषु यथा सन्निधते, एवमैवैष मुख्यप्राण इतरेषु प्राणेषु ग्रामस्थानीयेषु स्वांशभूतापानव्यानादिमुखेन सन्निधते । अधितिष्ठतीति यावत् ॥ ४ ॥

तृतीयेति । आत्मानमित्यनेन प्राण एक एव बहुधा भिन्नो भवतीति सूचितम् । कानि तानि भिन्नानि रूपाणि । एषु प्रधानाप्रधानभावः कीदृश इति प्रष्टुरभिप्रायः । तत्र दृष्टान्तप्रदर्शनपुरस्सरं भिन्नेषु स्वीयरूपेष्वपेि प्राणस्यैव प्राधान्यं ब्रुवन् आचार्थः उत्तरमुपक्रमते-यथा। सम्राडेवेतेि । इतरेषां प्राधान्यशङ्काऽपि न युज्यत इत्येवकारार्थः । अधितिष्ठेति । मूले आत्मनेपदं व्यत्ययेनेति भावः । व्यत्ययोऽपि फलस्य कर्त्रभिप्रायत्वबोधनद्वारा शासनातिलङ्घने ।


1. आा, ना, ‘ अस्मिन्’ 2. प्रः ' प्राणानां गमने’ षा. *प्राणगमने।' 3. आ न.पू. ' मनस इव' नास्ति । 4. प्र ' तृतीयस्योत्तर' ।