पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३. १-२.] प्रश्नोपनिषत् अथ तृतीयः प्रश्नः ॥ अथ हैनं कौसल्यश्चाश्वलायनः पप्रच्छ। भगवन कुत एष प्राणो जायते कथमायात्यस्मिञ्छरीरे आत्मानं वा प्रविभज्य कथं प्रति- तिष्टते' केनोत्क्रामते कथं बाह्यमभिधत्ते कथमध्यात्ममिति ॥१॥ अथ हैनं कौसल्य इति । स्पष्टोऽर्थः । प्रातिष्ठते प्रतितिष्ठतीत्यर्थः । बाह्यमभिधत्ते बाह्यरूपेण सन्निधत्त इत्यर्थः । बाह्यमित्यस्य सन्निधानक्रियाविशेषणत्वात् नपुंसकत्वम् ॥ १ ॥ अथ तृतीयः प्रश्नः मूले कौसल्यश्चेति । उपनिषदारम्भे ऋषीणां नामनिर्देशेषु आद्येषु चतुर्यु चकारघटनं अन्त्वयोर्द्वयोस्तदभावं चावधाय व्यमृशाम | तं विशेषं स्मारयन् भगवान् वेदपुरुषः नामनिर्देशस्य साक्षाद्विपरीतेन क्रमेण ऋषीणां प्रश्नान् निबध्नन् अन्त्ययोर्द्वयोः प्रश्नानन्तरमद्य आद्येषु चतुर्षु चरमस्य कौसल्यस्य प्रश्ननिबन्धनावसरे चकारं घटयतीति ध्येयम् । प्राणस्येतरेभ्यः श्रैठयं पूर्वमुक्तम् | तत्सम्बन्धिनो विशेषा इह प्रतिपाद्यन्त इति सङ्गतिः । बाह्यरूपेणेति । बाह्यं यथा तथाऽभिधत्त इति शाब्देऽन्वये अर्थलब्धोऽयमर्थः । सन्निधानस्य बाह्यत्वं हि कर्तृबाह्यत्वेनेति भावः । तस्मौ स होवाचातिप्रश्नान् पृच्छसि ब्रह्मिष्ठोऽसीति तस्मात्तेऽहं ब्रवीमि ॥२॥ तस्मै स होवाचेति । स्पष्टोऽर्थः । अतिप्रश्नान् प्रश्नमतिक्रम्य वर्त- मानान् प्रश्नायोग्यान् रहस्यार्थान् पृच्छसि । तस्मात् त्वं ब्रह्मिष्ठोऽसि प्रायेण ब्रह्म- विदसि । न प्राकृत इति यावत् । अतस्तेऽहं योग्यत्वात् ब्रवीमीत्यर्थः ॥ २ ॥ 'अतिप्रश्नान् पृच्छसि । अतो ब्रह्मिष्ठोसि'इति तं प्रशंसन् प्रथममुवाच । तस्मात् तेऽहं ब्रवीमि'इत्यादि चोवाचेति इतिकारयोजना द्रष्टव्या । ब्रह्मविदां श्रेष्ठत्वे कथं आचार्यान्वेषणं शिष्यवृत्तिश्चेत्यनुपपन्नमिवेदं भाति । अतो व्याख्याति-प्रायेणेति । ननु प्राणविषयैः प्रश्नः प्रष्टुः प्राणहित्त्वमाक्षिप्येत न कियदपि ब्रह्मवित्त्वमित्यत्र नात्र ब्रह्मपदं साक्षात्परब्रह्मपरम्। अपि तु सामान्यजनानां यद् दुर्विज्ञेयं, गूढं, तत्परमिति समाधग्नं सूचयन्नाह--न प्राकृत इति । 1. प्र. 'प्रतिष्ठते । 2. प्र. पू. 'नपुंसकत्वं' नास्ति । पश्चात्