पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३० श्रीरङ्गरामानुजमाष्ययुक्ता (२. १३. या ते तनूर्वाचीति । वागादीन्द्रियेषु तत्तदिन्द्रियनियमनानुकूला या' शक्तिः सततं प्रतिष्ठिता तां शिवां शोभनां कुरु । उत्क्रमणेनाशिवां मा कुरु । उत्क्रमणं मा कार्षीरित्यर्थः ॥ १२ ॥ स्तुतिप्रीतेन प्राणेन किं मया सम्प्रति कर्तव्यम् ? इति पृष्टाः स्वाभिमतं प्रार्थयन्ते-- या त इत्यादिना मन्त्रद्वयेन | तत्रादौ उत्क्रमणाभावप्रार्थनम् । तनूर्नाम अंशः शक्तिः । अस्माकं स्वरूपलाभः अस्मासु निहितेन त्वदीयशक्तिलेशेन । यदि त्मुत्क्रम्य गच्छसि तर्हि सा अस्मासु स्थिता त्वदीया शक्तिः अशिवा अकार्यकरी अमत्प्राया स्यात् । ततो वयं च। तस्मान्मोत्क्रमीरिति । प्राणस्येदं वशे सर्वं त्रिदिवे यत्प्रतिष्ठितम् । मातेव पुत्रान् रक्षस्व श्रीश्च प्रज्ञाश्च धेहि न इति ॥ १३ ॥ इति द्वितीयः प्रश्नः॥ प्राणस्येदं वशे सर्वमिति । जगदिदं सर्व प्राणस्य वशे वर्तते । वश इच्छ। । तदधानमिति यावत् । यच्च त्रिदिवे स्वर्गादिलोके प्रतिष्ठितं तदपि पाणाधीनम् । तस्मात् पुत्रान् मातेव अस्मान् रक्षस्व। अस्माकं स्वस्वकार्यनिष्पादन- सामर्थ्यलक्षणाः श्रियः तदनुकूलप्रज्ञाञ्च विधत्स्व ।। १३ ॥ इति प्रश्नोपनिषद्भाष्ये द्वितीयः प्रश्नः ।। एवमनिष्टनिवृत्तिं प्रार्थ्य अथेष्टसम्पत्तिं प्रार्थयन्ते--प्राणस्येति । प्रयोजनमनपेक्ष्य केवलं वत्सलतया माता पुत्रान् रक्षति । तथा त्वमस्मान् रक्षितुमर्हसि । का रक्षा ? श्रियां प्रज्ञायाश्च विधानम् । न च 'भवदभिमतपूरणं ममाशक्यमिति त्वया वक्तुं शक्यं युक्तं वा । यत् किञ्चिदस्मिन् लोके वर्तते यच्च लोकान्तरे तस्य सर्वस्य त्वदिच्छाधीनत्वात् । तदस्मान् रक्षेति । एतेन प्रार्थनाप्रकरणे कथं पुनर्महिमकथनमिति शङ्का निरस्ता वेदितव्या। प्रार्थनो- पयोगितया कथनात । ननु 'प्राणस्येदं वश' इति परोक्ष इव भाषणमनुपपन्नम् । तमभिमुखीकृत्य स्तुतिप्रार्थनयोः करणात् । तवेदं वशे सर्वमिति तु भाव्यम् । सत्यम् । ' हे प्राण तवेदं वशे' इत्यस्मिन्नेवार्थे इयं वाचन वचनभङ्गीति गृह्यताम् । तदनुकूलेति । पुनरेवं त्वयि अपचारो यथा न स्यात् तथा विवेकं चेति द्रष्टव्यम् | इति द्वितीयप्रश्नटिप्पणी अ.भा. ना. पू. 'या' नास्ति । '.आ. 'श्रियश्च प्रशां च विधेहि 3. ना. श्रीयांबविधेहि मः । पू. श्रीध प्रज्ञां विहि नः' ।