पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१ १५-१६.] प्रश्नोपनिषत् कामानां मुमुक्षूणां तत्रोदासीनानामितरेषां चोपस्थितिर्भवति । तस्मात् तत्स्तुतिनिन्दे क्रियेते इति भावः । ये प्रजापतिव्रत चरन्तीत्यादिना अमुमुक्षुप्रत्यायनम् । तेषामेष ब्रह्मलोक इति तेषां संसार चक्रपरिवर्त्यंमानतया निन्दा । येषां तपो ब्रह्मचर्य येषु सत्य, न येषु जिह्ममिति मुमुक्षुख्या- पनम् । तेषामसौ विरजो ब्रह्मलोक इति तेषां सर्वदुःखनिवृतिपूर्वकमहानन्दप्राप्तयर्हतया स्तुति- रिति क्भिाव्यम्। अथ प्रासङ्गिकमपि निष्प्रयोजनं न वक्तव्यम् । असक्तत्वापरिहारात । न त्युपस्थितिमात्रं प्रसङ्गः। अपि तु उपेक्षानर्हत्वमपि मिलितम् । तच्च प्रतिपादनस्य प्रयोजनवत्त्वे सति भवति नान्यथा । तथा चामुमुक्षुमुमुक्षुनिन्दास्तुत्योरिह किंञ्चिरप्रयोजनं वाच्य मिति चेद् ब्रूमः प्रश्रस्यो. त्तरं यद्यपि दत्तं तथापि 'एतदमृतमभयमेतत् परायणमैतस्मान्न पुनरावर्तन्त' इति पूर्वोक्तं स्मरतां इयमाशङ्का भवितुमर्हति -सर्वा एवं प्रजा: अमृतमभयं परायणमात्मानमन्विष्य अपुनरा- वृत्तिं कुतो न गच्छन्ति । कुत इह प्रजायन्त इति । एतत्परिहारव्यञ्जनतात्पर्येण इमे स्तुतिनिन्दे प्रवृत्ते । जिह्मानृतमायारहितानां हि तपआदिसम्पत्त्या विद्यानिष्पत्तिः, ततोऽधुनरावृत्तिश्च । तथा- विधा अतिदुर्लभाः । स्वभावतः सर्वेषां जिह्ममृतादिसङ्गित्वात् । तदिह पुनःपुनर्जायन्ते । नापु- नरावृत्तिपदं गच्छन्तीति । प्रथमतच्छब्दं लुप्तपञ्चमीकमव्ययं कृत्वा व्याचष्टे--तस्मादेति । यस्मादन्नं रेतस्त्वेन परिणमते रेतसश्च प्रजा जायन्ते तस्मादित्यर्थः । द्वितीयतच्छब्देन प्रसिद्धि परामर्शकेन जड़ै- राचर्यमाणमित्येतदभिधीयत इति सुगमम् | व्रतत्वेन नियतकर्तव्यत्वेन । व्रतशब्दस्य 'पयो- व्रतं ब्राह्मणस्य ' इत्यादौ भक्षणार्थे प्रसिद्धत्वात् अन्नस्य प्रजापतित्वेन पूर्ववाक्ये उपस्थितत्वाच्च एवमिदं भाष्यकृता व्याख्यातम् । यदि तु इतिशब्देन प्रधानप्रकरणसमाप्तिद्योतकेन अन्नोप- स्थितिविच्छिन्न्नेति स्यात् तदा प्रकारान्तरेण व्याख्यातुं शक्यम् । तथाहि । अत्र प्रजापतिव्रतं नाम किमिति पर्यालोचने ते मिथुनमुत्पादयन्ते' इत्येतत्सादृश्यात् ‘स मिथुनमुत्पादयते' इत्येतद्वाक्यघटित प्रजाकामो ह वै प्रजापति' रित्यादिप्रतिवचनगारम्भस्थमहावाक्योपस्थित्या प्रजाकामनया तत्सृष्ट्युचितप्रयत्नवत्त्वं प्रजापतेर्यत् तत्रोक्तं तदेवेह प्रजापतिव्रतपदविवक्षितमिति प्रतीयते । तदयमर्थः। तत् तत्र ; वस्तुतत्त्व एवं स्थित इत्यर्थः । ये तत् पूर्वोक्तं प्रजापतिव्रतं प्रजाकामनया तदुत्पादनोपयोगिनं तीव्रमुद्यमं चरन्ति कुर्वन्तीति । एष ब्रह्मलोक इति । क्वचिद् ब्रह्मपदं न पठ्यते । पश्यमानं तु युक्तं भाति । यद्यप्यु- क्तरीत्या सर्व ब्रह्मात्मकमेव तथापि अल्पत्यास्थिरत्यादिदोषभूयिष्ठतया नेदं विवकिनामभिलाषास्पद- मिति भावः । येषां तप इति । यत्रपि अस्मिन् खण्डे इदं पठ्यते तथाप्यर्थानुसारेण उत्तरत्र योजनमावश्यकमिति भावः । जिह्मत्वमिति। उत्कटं जिहात्वमेव मायेलामो ग न मायापदं व्याख्यातमिति भाति । ग्रन्थपातो वा। विरज इति। छान्दसण, नीर्घा- भावो वा । ननु ब्रह्मणो लोको ब्रह्मलोक इति स्वरसतः प्रतीयत्त का तथैवेति राकरप्रन्थेषु द्रष्टव्येति भावः । इतिशब्द इति । प्रतिवचनमहा समाप्तिद्योतक इत्यर्थः इति प्रथमप्रश्नटिप्पणी TRIPATE 44103