२२ श्रीरामानुजभाष्ययुक्ता [२. १-२. अथ द्वितीयः प्रश्नः॥ अथ हैनं भार्गवो वैदर्भिः पप्रच्छ । भगवन् कत्येव देवाः प्रजा' विधारयन्ते कतर एतत् प्रकाशयन्ते कः पुनरेषां वरिष्ठ इति ॥१॥ देहेन्द्रियमनःप्राणादिविलक्षणप्रत्यगात्मशोधनाय प्रश्नानवतारति । उक्तञ्च ब्यासार्यै: “ उत्तरेषु खण्डेषु प्रत्यगात्मा विशोध्यत" इति । अथ हैनमिति । कब- न्धिप्रश्नानन्तरं पिप्पलाद भार्गवो वैदर्भिः पृष्टवान् । किमिति? भगवन्निति । हे भगवन् किसंख्याका देवाः स्थावरजङ्गमात्मिकां प्रजां बिभ्रति । तेष्वेव देवेषु कतरे देवा एतत् शरीरं कार्य(वा) प्रकाशयन्ते । कः पुनरेषां श्रेष्ठ इति ।। १ ।। अथ द्वितीयः प्रश्नः महाप्रकरणार्थमाह-देहेन्द्रियेति! प्रजानामुत्पत्तिरुक्ता, स्वरूपं निरूप्यत इति सङ्गति- रिति भावः । प्रजाशब्द. प्रायो मनुष्याय प्रयुज्यते। इह न तथेत्यभिप्रत्याह-स्थावरेति । कतर इत्यनेन 'न ते मयं अपि तु तेषु केचिदेव, इति ज्ञायते' इति प्रश्टा सूच्यते । तद्विशदय- न्नाह-तेष्वेवेति । एतदिति प्रत्यक्षनिर्देश इत्यभिप्रेत्य विवृणोति- शरीरं तत्कार्यं वेति । कार्थ आहारविहारादि : शरीरस्य प्रकाशनं यदि निष्पादनं न तद् वागादिकर्तृकम् । यद्यभिन्य ञ्जनं न तदाकाशादीनाम् । यद्धुज्ज्वलीकरणं न तत्प्रायेण भूयिष्टनाम् । तत: तत्परित्यज्य तत्कार्यानुधावनम् । प्रकाशने म निष्पादनमेव : यद्यत्र एतदिति पूर्वोक्तपरामर्शि तर्हि, प्रजाविधा- रणमेव तदर्थं कृत्वा तेषु कतरे देवाः स्वकृतं प्रजाविधारणे प्रकाशयन्ते अस्मद्वेद्यं कुर्वन्ति ; कैः कृतं तत् अस्माभिः स्फुटं द्रष्टुं शक्यमिति यावत् ।' इति शक्यं विवरीतुम् । कः पुनरिति । यद्यपि धारणादिकृतो बहवः तथापि तेषु एकेन श्रेष्ठेन भवितव्यम् ; स क इति । तस्मै स होवाचाकाशो ह वा एष देवो वायुरग्निरापः पृथिवी वाचनश्चक्षुःश्रोत्रञ्च । ते प्रकाश्याभिवदन्ति वयमेतद्धाणमवष्टभ्य विधारवामः ॥२॥ वाच । स्पष्टोऽर्थः । मुख्यप्राणस्यैव धारकत्वप्रकाशकत्य- वतमालयाका माह-आकाशो ह वा इति । ह वा इति प्रसिद्ध्यति- 3.पू. 'बलिष्ठः। ॐ.आ. 'त्मिकाः एष्वेव। 5. ना. 'धारकत्वश्रेष्ठत्वादीनि'। .
पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/२६
दिखावट