पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२० श्रीरङ्गरामानुजभाष्ययुक्ता [११५-१६. प्रकृतिपुरुषौ सृष्ट्वा तदात्मतयाऽवतिष्ठते । संवत्सरादिकालरूपेण वर्तमानः तत्तदृत्वनुगुणवर्षातपादि- प्रवर्तनेन अन्नमुत्पाद्य तदात्मतयाऽवतिष्ठते । अन्नं जग्ष्वा तृप्तः पुमाम् यदा स्त्रिया संयुज्यते तदा वीर्यात्मना स्थितं ब्रह्म तस्या गर्भ प्रविश्य ततःपर काले प्रजारूपो जायते। तस्मात् ब्रह्मणः प्रजा जायन्ते, अन्नाज्जायन्ते, मातापितृभ्यां जायन्ते, रेतसो जायन्त इत्येषां व्यवहाराणां न मिथो व्याघात इत्याचार्यस्य इयता विस्तरेणोत्तरं ददतोऽभिप्राय इति । तद्ये ह तत् प्रजापतिव्रतं चरन्ति ते मिथुनमुत्पादयन्ते । तेषामे- वैष ब्रह्मलोको' येषां तपो ब्रह्मचर्यं येषु सत्यं प्रतिष्ठितम् ॥ १५ ॥ तेषामसौ विरजो ब्रह्मलोको न येषु जिह्नमनृतं न माया- चेति ॥१६॥ इति प्रथमः प्रश्नः ॥ प्रसंगात् अमुमुक्षुनिन्दापूर्वकं मुमुक्षून स्तौति-तघे ह वै(:) प्रजापति- 'व्रतं चरन्तीति । तस्माद्ये “ अन्नं वै प्रजापति"रिति प्रजापतिशब्दितस्यान्नस्य व्रतं भक्षणं व्रतत्वेनानुतिष्ठन्ति येऽन्नभक्षणशीला ब्रह्मचर्यरहिताः, त एव प्रजा उत्पादयन्ते । एष ब्रह्मलोकः' पुत्रपश्वादिलक्षणः कार्यभूतब्रह्मरूपः लोकः तेषामेव, न त्वात्मकामानामिति भावः । येषां तपो ब्रह्मचर्यमिति । येषां कायशोषणाख्यं तपः न भक्षणशीलता, मैथुनवर्जनं ; येषु च 'मनस्यन्यद् वचस्यन्यत् कर्मण्यन्यद् दुरात्मना "मित्युक्तकौटिल्यलक्षणं जिह्मत्वं नास्ति, भूताहितवचनलक्षणमसत्यवचनं नास्ति तेषामसौ विरजः निर्दोषः ब्रह्मैव लोको ब्रह्मलोकः । तथैव व्यासार्यै:सर्वव्याख्या- नाधिकरणे विवृतत्वादिति द्रष्टव्यम् । इति शब्दः प्रतिवचनसमाप्तौ ॥ १५-१६ ।। इति प्रथमप्रश्नभाष्यम् । १५. प्रसङ्गादिति । कुत इमाः प्रजाः प्रजायन्त इति प्रश्नस्य तस्मादिमाः प्रजाः प्रजायन्त इत्यन्तमुत्तरं दत्तम् । तत्र प्रकरणं समापनीयम् । केषां ब्रह्मलोकप्राप्तिर्भवति केषां न भवतीति प्रतिपादनस्य नास्ति सङ्गतिरित्याशङ्कापरिहारायेदमुक्तम् । यदापि नान्या सङ्गतिरस्ति तथापि प्रसङ्गरूपायास्तस्याः सत्त्वात् न असङ्गतत्वशङ्का कार्या । कारणभूते हि ब्रह्मणि उपदिष्टे तत्प्राप्ति 1. आ. ना. पू. एष लोकः। 2. प्र. पृ. 'तत्प्रसङ्गात्' 3. BT. "प्रजापतेर्बतम्"। 4. आ. ना. पू. एष लोकः"|.आ.मा. "कार्य रूपः" नास्ति। 1.आ. शोषाख्यम्"। 7.ग्र. "भूनाहितमसत्य 8. अ, इतः परं 'परब्रह्मरूपं फलमित्यर्थः' इत्यधिक दृश्यते । 11 "