पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१. १४.]
१९
प्रश्नोपनिषत्

अत एव रत्या रत्यर्थ, प्रयोजनस्य हेतृत्वविवक्षया' तृतीया। प्राणभूतेSह्नि स्त्रीभिर्ये संयुज्यन्ते त एते प्राणमेव प्रस्कन्दन्ति प्रकर्षेण शोषयन्ति। प्राणापचारात् प्राणमेव निघ्नन्तीत्यर्थः। ननु तर्हि स्वयोषिन्गमनं गृहस्थैर्न कार्यमित्याशंक्य रात्रौ कार्यमित्याह- ब्रह्मचर्यमेव तदिति। रत्यर्थ रात्रौ स्त्रीसप्रयोगो ब्रह्मचर्यमेव। मैथुनमेव न भवतीत्यर्थः। तन्न दोषायेति यावत् ॥ १३ ॥

तन्न दोषायेति। ननु गृहस्थधर्मस्य स्वयोदिद्रमनम्य दोषत्वापादकतया प्राणरूपयाद्दोSपकर्षः, अतथानृततया रयिरूपाया रात्रेरुत्कर्षेश्च प्रतीयते।न चैवमेक्षास्तु को दोष इति वाच्यम्। प्राणशब्दाथंभूतोत्तरायणशुक्लपक्षदिवसानामुत्कर्ष च वक्तुमारभते' इति पूर्वोक्तविरोधादिति चेन्न। यधा दम्पत्योः स्वच्छन्दवृत्तिर्गुरुसन्निधौ निषिध्यते तथेह अहनि संसर्गनिषेध इत्यभिप्रायात्। गुरूणां पूज्यत्वं हि तत्र निबन्धनम्। तथा प्राणरूपम्याद्धोऽपीति।

अन्नं वै प्रजापतिस्ततो ह वै तद्रेतस्तस्मादिमाः प्रजाः प्रजायन्त इति ॥ १४ ॥

ननु प्रकृतिपुरुषकालात्मकं ब्रह्म कथं प्रजानामुपादानमित्युच्यते। अन्नपरिणामभृतस्य रेतस एव प्रजोपादानृत्वदर्शनादित्याशंक्याह-- अन्नं वै प्रजापतिरिति। अन्नावस्थं, तदुत्पन्नरेतोSवस्थञ्च यतः प्रजापतिशब्दितं ब्रह्मैव, अतः प्रकृतिपुरुषसंवत्सरमासादिकालान्नरेतोSवस्थात् ब्रह्मणः सर्वाः प्रजाः प्रजायन्त इति प्रजापतिशब्दितस्य ब्रह्मण उपादनत्वमुपपद्यत इति भावः॥ १४ ॥

उपादानमित्युच्यत इति। न चात्र पूर्वमुपादानत्वं कुत्रोक्तमिति वाच्यम्। उत्पादिते मिथुने एकस्य प्राणस्य विश्वरूपं हरिणमित्यनेन मन्त्रेण प्रजापत्यात्मकत्वोक्त्या तत एव तत्साहपठिताया रयेरपि तत्सिद्या च कार्ययो रयिप्राणयोरन्तरात्मक्त्याSवस्थानेन प्रजापतिरपि कार्यत्वं तावत् प्रतीयते। न चेदं तस्योपादानत्वमन्तरेणोपपद्यत इति तदपि प्रतीतमेवेति।

इत्याशङ्कयेति। इति श्रोतुराशङ्कां उत्थितां कृत्वेत्यर्थः। यद्वा इत्येवं चोद्यमाशङ्कयेति योज्यम्। अन्नावस्थमिति। आभ्यां शङ्कापरिहाराभ्यामस्य प्रश्नस्य सारार्थः प्रकाशितः। तथा हि-- कुतो ह वा इमाः प्रजा प्रजायस्त इति पृच्छतः कबन्धिनः कात्यायनस्यायमभिप्रायः। स्त्रीपुंसाभ्यां मिथुनौभवद्भयां प्रजा जायन्त इति प्रत्यक्षमेतत्।प्रत्यक्षाद्यगोचरात् परस्माद् ब्रह्मण: सर्वमुत्पद्यत इति तु वृद्धा आचक्षते। अत्र किं तत्वमिति जिज्ञासामह इति। परं ब्रह्म


1. आ। ' विवक्षायाम ' । 2. पू. शोचयन्ति । 3. आ. व्यतिरिक्तेषु "अवस्थारूपात्" । 4. आ. ' इमाः ' ।