पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८
१. १३.
श्रीरङ्गरामानुजभाष्ययुक्ता

पक्ष:1 प्राणतया उत्कृष्ट:तस्मात् ऋषय:अतीन्द्रियार्थद्रष्टार:सर्वेऽपि शुक्लपक्ष एव शोभनानि कर्माणि कुर्वन्ति। इतरे अनृषय:अज्ञा:पुन: अप्राणतया असारभुते कृष्णपक्षे कुर्वन्तीत्यर्थ:॥१२॥

रयिप्राणात्मनेति। यद्यपि 'एष ह वै रयिर्य:पितृयाण:' इतिवत् 'एष ह वै प्राणो यो देवयान' इति उत्तरभार्गस्य प्राणत्वम् नोक्तम् तथापि 'एतद्वै प्रजानामायतनमित्यनुक्ता एतद्वै प्राणानामायतनम् एतस्मान्न पुनरावर्तन्ते' इति प्राणपदघटनात् प्राणभृतां परमश्रेय:प्राप्तिसाधनतया उत्तरायणस्य प्राणत्वमौपचारकं सुचितमेवेति नानुपपतिरिति ज्ञेयम् । उपासनार्थमिति। एतेन पूर्वोक्ते चित्तावतरणार्थत्वे नातीवादर इति व्यज्यते।मुले तस्मादित्यस्य शुक्लपक्षस्य प्राणत्वादित्वर्थ:।अस्तु प्राणत्वम्।तावता तत्र कथमनुष्टानमित्यत:सोपस्कारं व्याचष्टे यस्मात् उत्कृष्ट इति। प्राज्ञानामनुष्टानकालतया उत्कर्ष:सुचित इति भाव:।

अनृषय इति।नन्वेतदनुपपन्नम्।पुर्व 'एत ऋषय:'इति श्रवणात्।यदि हि 'ऋषय:शुक्ले कुर्वन्तितर तरस्मिन्' इत्येतावन्मात्रम् श्रूयेत तर्हि 'इतरे ऋषिभिन्ना अनूषय:'इति विवरणम् युज्यते।एत ऋषय इत्येवमभिधाय अनन्तरम् इतर इति निर्देशात्तु अन्ये ऋषय इत्येव स्वरसत:प्रतीयते।अतस्तथैव व्याख्येयमिति चेत्।अत्रेदमवधेयम्।'एत ऋषय:शुक्लेकुर्वन्ति;इतरे ऋषय:कृष्णे कुर्वन्ति' इति वचनव्यक्तौ अङ्गीक्रियमाणायां कस्यचिद्विशेषस्थानवगमात् वाक्यमेव कृत्स्नं व्यर्थं भवति।न हि उभयोरपि पक्षयो:समं प्राशस्त्यं प्रतिपाद्यत इति युक्तमङ्गिकर्तुम्।पूर्वापरप्रक्रियाविरोधात्।मासस्य प्रजापतित्वकथनस्य पक्षयोर्विमज्यवचनस्य चात्यन्तवैयर्थ्यापातात्।उपासनमात्रार्थत्ववादस्यातिदुर्बलत्वात्।तस्मात् 'एते केचन शुक्लं कुर्वन्ति। इतरे सर्वे कृष्णे कुर्वन्ति इत्येव वचनव्यक्ति:। अत्र हेतुरपेक्ष्यते कस्मादेवं केचन शुक्ले कुर्वन्ति नेतरस्मिन् इति।तत्प्रतिपादनपरमेतत् 'ऋषय' इति।यस्मादेत ऋषय: प्राज्ञा: विशिष्टकालावगमकुशला: तस्मादेते विशिष्टे शुक्लपक्षे कुर्वन्तीति।एतेन अनृपित्वादेव इतरे इतरस्मिन् पक्षे कुर्वन्तीति तत्रापि हेतुराक्षिप्तो भवति।तथाच इतरेऽनृषय इत्येव पर्यवसानमित्यतिसूक्ष्मदर्शिताऽत्र भाष्यकारस्य निपुणं विभाव्यः ।अनृप:अज्ञा:इति पुनर्विवरणेन हि स्पष्टमत्र स्वाभिप्रायम् प्रकाशयततीति ।

अहोरात्रो वै प्रजापतिस्तस्याहरेव प्राणो रात्निरेव रयि:प्राणं वा एते प्रस्कन्दन्ति ये दिवा रत्या संयुज्यन्ते ब्रह्यचर्यमेव तध्यद्रात्नौ रत्या संयुज्यन्ते ॥१३।।


अमुमेव विभागं अहोरात्नेऽप्युपासनाय प्रदर्शयति अहोरात्रो वै प्रजापतिरिति।स्पष्टोऽर्थ:।प्राणं वा एत इति।यस्माद्हेतोह्र्नः:प्राणरुपत्वम्,


1. पू. "पक्ष:" नास्ति।