पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१. १२.]
१७
प्रश्नोपनिषत्

उत्कृष्टवचनः । पूर्वोक्तेभ्योऽन्ये उत्कृष्टाः,इमे कालतत्त्वविदः आदित्यादिग्रह्सप्तकलक्षणचक्रयुक्ते, ॠतुमक्षणारषट्कयुक्ते, संवत्सराख्ये रथे जगत्सर्वं विचक्षणं कुशलं निष्चलं यथा भवति तथा अर्पितमित्याहुः ॥ ११ ॥

'प्रभवो विभवः शुक्लः' इति पठिते षष्टिहायनचक्रं प्रथमे पञ्च क्रमेण वत्सरादिनामानः । पुनः षष्टादयः पञ्च तथा । पुनरपि एकादशादयः पञ्च न्नथेत्यान्यं । द्रष्टव्यम् । एवं पञ्चाब्दीक्रमेण संवत्सरचक्रस्य परिवर्तमानत्वात् पञ्चपादत्वमुक्तमित्यभिप्रेत्य व्याचष्टे-वत्सरेति । तैतरीयब्राह्मणे एकत्र'संवत्सरः,परिवत्सरः,इदावत्सरः,इदुवत्सरः,इद्वत्सरः'इति पञ्च नामानि ह्श्यन्ते । अपरत्र चतुर्थस्येदुवत्सरस्य स्थाने अनुवत्सरः पठित इति विशेषः । एकैकस्य हायनस्य पञ्चपादत्वं वक्तव्यमिति यदि मन्यते तदनुरोधेनान्यथा व्याचष्टे अथवेति । पञ्चर्तव इति । 'द्वादश मासाः पञ्ञर्तवः' इति वेदेष्वेवाम्नातमिहानुसन्धेयम् । ॠतुप्रवृतिक्रमेण हि संवत्सरो याति । तेन ॠतूनां पादत्वम् । स्वर्णभूमीति । 'तदण्डभभवद्वैमं तदण्डमकरोत् द्विधा' 'ताभ्यां स शकलाभ्यां च दिवं भूमिं च निर्ममे ' इति मनूक्तरीत्या हिरण्मयस्याण्डस्य शकलेन दिवो निर्मितत्वात् विश्वकोशस्योपरितनी भूमिः स्वर्णमयी भवति । तस्य अप्युपरि यदावरनणमस्ति तत्पुरीषपदवाच्यामिति।

उत्कृष्टेति । एभिर्यदुच्यते तदेवोपादेयमिति भावः । संवत्सरात्मनः प्रजापतेः स्थानोपदेशपरोऽयं मन्त्रः पक्षद्वयमुपन्यस्य चरमे सिध्दान्ततामभिव्यञ्जयति । तत्र प्रथमः पक्षः ,दिवः परे स्थाने वर्तत इति कण्ठोक्तः । दूरे स्थितस्य कथं संवत्सररूपकालनयन्तृत्वतमिति शङ्कायां 'प्रदीपवदावेशस्तथाहि दर्शयति' इत्यभावाधिकरणसूत्रोक्तन्यायेन सङ्कल्पमात्रेण तदुपपन्नमिति सभाधानाभिप्रायेण पञ्चपादं द्वादशाकृतिमिति शरीररूपणं कृतम् अण्डान्तर्वर्त्यपि समस्तं वस्तुजातं व्याप्य वर्तमानत्वादिहैव स परमात्मा वर्तत इति द्वितीयः पक्षः । स तु परमरहस्यत्वान्न कण्ठत उच्चते । अपि तु 'सप्तचक्रे' 'षडरे' इति रथरूपणेन व्यज्यते । न ह्यधिष्ठातारं रथिन विना रथस्य प्रवृत्तिरस्ति । तथा इहैव स्थितः संवत्सररथं नियमयतीत्ययमेव पक्ष आदरणीय इति ।

जगत्सर्वमिति । अर्पितमिति पारतन्ञ्यप्रतीतेर्न परमात्मनो विशेष्यतया ग्रहणं युज्यते । अतः पारिशेष्यात् जगदेव ग्राह्यमिति भावः ।

मासो वै प्रजापतिस्तस्य कृष्णपक्ष एव रयिः शुक्लः प्राणस्तस्मादेत ऋषयः शुक्ल इष्टिं कुर्वन्तीतर इतरस्मिन् ॥ १२ ॥

'यथा संवत्सरो रयिप्राणात्मना विभक्तः, एवं मासोऽपि' इत्युपासनार्थं प्रदर्शयति---मासो वै प्रजापतिरिति । स्पष्टोऽर्थः । तस्मादेत इति । यस्मात् शुक्लः


1.आ."शुक्लः पक्षः"।