पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६
१. ११.
श्रीरङ्गरामानुजभाष्ययुक्ता

हेतुत्वस्य परमात्मलिङ्गत्वात् तदधीनसिद्धिकमर्थविशेषमाह -अत्र एष इतीति । आत्मशब्दोSपीति । न ह्यनुपासकस्य स्वेतरोपासकस्य वा प्रजापतिः पुनरावृत्तिनिरोधकारी भवेत् । तेनायमुपास्य आत्मा प्रजापतिरेवेति । इदमत्र आकूतम् । कारणतया प्रतिपाद्यमानत्वात् प्रजाकामो ह वै प्रजापतिरिति निर्दिष्टः प्रजापतिः परमात्मेति पूर्वमेवोक्तम् । तस्यैवेह पुनः आत्मशब्देन एतच्छब्देन च निर्दिष्टस्य उपास्यत्वार्चिरादिगतिप्राप्यत्वापुनरावृत्तिहेतुत्वप्रतिपादनादपि तस्य परमात्मत्वं वेदितव्यभिति । तदिदं संवादार्थं ष्रुतप्रकाशिकोदाहरणव्याजेन स्फुटीकरोति - अत एवेति ।

संवत्सरात्मनीति । नन्वितिशब्देनावान्तरप्रकरणावसानं सूचितम् । एष निरोध इत्येतच्छन्देन च प्रजाकामो ह वै प्रजापतिरिति निर्दिष्टः परमप्रकृत: प्रजाप्रति: परामृश्यत इत्युक्तम् । तथा सति कथमिदानीं अयमेतच्छब्द: संवत्सरात्मानं प्रजापतिं निर्देषुं शक्नोति । व्यवहितत्वात् । इति चेदुध्यते । इतिशब्देन उतरमार्गवैलक्षण्यप्रतिपादनसमाप्तिर्द्योत्यत इत्युक्तम्ः न तु प्रकरणसमाप्तिरिति । एतच्छन्देन च संक्त्सरो वै प्रजापतिरित्यत्रोपस्थित एष प्रजापति: परमृश्यते । स तु परामृश्यमान: केवल एव परामृश्यते न संवत्सरात्मत्वविशिष्टतया । अस्य आकारस्य पुनरावृत्तिनिरोधकरणे अनुपयोगित्वात् । कारणत्वाकारस्यैवापेक्षितत्वात् । एतव्द्यजनायैव ' एषः प्रजाकामो वै प्रजापतिः इति प्राक् प्रजापतिशब्दनिर्दिष्टः ' इति विवरणं कृतम्, न तु तद्वाक्योपस्थितपरामर्शित्वतात्पर्येण । तस्तमात् मध्ये निरोधवाक्ये अनाकांक्षितत्वेन संवत्सरात्मत्वविशेषणपरित्यागेSपि अत्र विशिष्टपरामर्शे नानुपपत्तिलेशोऽपीति ।

एतस्मान्न पुनरार्तन्त इति हेतो: एष उत्तरमार्गः निरोधशब्दवाच्यो भवति पुनरावृत्तिं निरुणध्दीति व्युत्पतेः । न च दक्षिणमार्ग एवमित्येवमपि शक्यं व्याख्यातुमिति द्रष्टव्यम् । वक्ष्यमाण इति । एष श्लोक इत्यत्रत्यस्य एतच्छब्दस्य विवरणमिदम् । बहृचैरधीत इति पूरणीयम् ।

पञ्चपादं पितरं द्वादशाकृतिं दिव आहुः परे अर्धे पुरीषिणम् ।
अथेमे अन्य उ परे विचक्षणं सप्तचक्रे षडर आहुरर्पितमिति ॥ ११ ॥

पञ्चपादं पित्तरमिति ॥ वत्सरसंवत्सर परिवत्सरेडावत्सरानुवत्सररुपा: पञ्च पादाः यस्य स पञ्चपादः । अथ वा हेमन्तशिशिरयोरेकीकरणात् षडृतवः पञ्चर्तवः संपद्यन्ते। ते पादा: यस्य स पञ्चपाद: तम् । पितरं सर्वस्य जनकं, द्वादशाकृतिं द्वादशमासाकृतिं, दिवः स्वर्गात् परे परस्मिन् अर्धे स्थाने पुरीषिणं पुरीषशब्देन स्वर्णभूमिसन्निहितं ब्रह्माण्डगोळकावरणमुच्यते। सोSस्य स्थानत्वेनास्तोति पुरीषिणमाहुरित्यन्वय । अथशब्द: पक्षान्तरपरिग्रहे । उशब्द: अवधारणे । परशब्द


1. ना. " संवत्सरवत्सर..." । 2. प्र. 'पञ्चपाद:' नास्ति ।