पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१. २०.]
१५
प्रश्नोपनिषत्

एवं च विशिष्यानिर्दिश्यमानतयैव एषमुत्तरमार्गाधिकारिणां दक्षिणमार्गाधिकारिभ्योऽतिमात्रवैलक्षण्यं व्यञ्जितं भवति । तत स्फुटीकरोति-ये तावदिति । ते हि प्रजाकामा विषयसङ्गिनः । एते तु 'किं प्रजया करिष्यामः' इत्येवं स्थिता विरक्ता इति । कायक्लेशेति । विहितमुपवासादिकमेित्यर्थः । तपसेति विहितानुष्ठानं, ब्रह्मचर्येणेति निषिद्धवर्जनं. श्रद्वयेत्यधिकारसम्पतिः, विद्ययेति अङ्गभूतं स्वात्मोपासनं चाभिप्रेतमिति भावः । उपास्येति । नष्ठवस्तूपलम्भाय प्रकृतो हि यावदुपलम्भं तद् वस्तुं सादरं बुद्धौ धारयति । तदिहान्वेषणेन उपासनं लक्ष्यत इति भावः । उत्तरेणेत्यस्य विशेष्यं अयनं महाप्रकरणाद्लभ्यते तच्च मार्गरूपमिति पूर्वोक्तरीत्या स्थितम् । तदाह--अर्चिरादीति। उत्तरेणेत्यादितृतीयान्तशब्दमालायां प्रथमवर्जमन्ये अन्विष्येत्यत्र ल्यबन्ते अन्वीयन्ते । प्रथमम् अभिजयन्त इत्यस्मिन्नाख्याते । अतोऽत्र प्रथमपठितस्यापि चरमं व्याख्यानमिति ज्ञेयम् । पाठप्राथम्ये तु अथेत्युपक्रम्यमाणस्यावान्तरप्रकरणस्य एतदीयतया प्राधान्यादिति । ननु यद्युत्तरमार्गेण आदित्यं प्राप्नुवन्ति तावता चन्द्रप्राप्तिहेतुभूतान्मार्गान्तरादस्य को विशेष इत्याशङ्कापरिहाराय सप्रमाणं विशिनष्टि- आदित्याचन्द्रमसमिति । ' त्प्राप्यं, तस्य ह्यन्वेषणं भवति । तेनात्मनः प्राप्यत्वे सिद्धे ' अन्विष्य आदित्वमभिजयन्ते' इत्यादित्यप्राप्तिः किमर्थमुच्यत इति पर्यालोचनायां तत्प्राप्तिद्वारतयेति प्रतीयते । तच्चान्यत्र स्पष्टमेवोक्तमिति भावः । नन्वादित्यस्य ब्रह्मप्राप्तिद्वारत्वं काममस्तु ' ततोऽपि को विशेष इति शङ्कापरिहाराय एतद्धं प्राणानामित्यादिप्रवृतिनिभिप्रायेणावारयति--अन्वेष्टव्यतयेति । स्तुवन्निति । प्रकृतोपयो'गितया कांश्चन गुणान् कीर्तयन्नित्यर्थः । गुणाभिधानं हि स्तोत्रम् । एवं चास्य वाक्यस्य आत्मस्वरूपनिरूपणे न तत्परता । अपि तु अपुनरावृत्तप्रतिपादने, तन पुनरावृतिमतो दक्षिण मार्गदस्योत्तरमार्गस्य विशेषप्रतिपादने चेति द्रष्टव्यमिति भावः । नपुंसकेति । अन्यथा आत्मपरामर्शितया पुट्टिङ्गता स्यादिति भाव । आधारभूतमिति । आत्मतया धारकमित्यर्थ । अमृतं निरतिशयभोग्यम्। अभयं दुःखासम्भिन्नम् । स्वर्गसुन्ववत् नश्वरत्वकृतभयशून्यमिति यावत् । परमप्राप्यमिति । ततोऽन्यत्र प्राप्यं नास्तीत्यर्थः । एतस्मादिति । पुनरावृतिर्हिं तस्याभोग्यत्वाद्वा नश्वरत्वाद्वा प्राप्यान्तरसत्वाद्रा शङ्क्येत । तत् त्रितयमपि नास्ति । एतस्य सर्वात्मत्वात्। तस्मातपुनरावृतिरिति ।उपासका इति । कर्त्रपेक्षायां पूर्वमन्विष्येत्यनेनोपस्थिता अन्वेषणकर्तार एवान्वेतुमर्हतीति भावः ।

एष इति । इतिशब्दः पूर्वेणान्वितः उत्तरमार्गस्य वैलक्षण्यप्रतिपादनसमाप्तिद्योतक इत्याशय: । प्रागिति । उक्तरीत्या इतिशब्देनावान्तरप्रकरणस्य समाप्तत्वावगमात् ततः परं श्रूयमाणोऽयमेतच्छब्दः परमप्रकृतं प्रजापतिं परामृशतीति भावः । स्व प्राप्तस्येति । दक्षिणायनेन गच्छन्त तं न प्राप्नुवन्ति । तस्मात् तेवां पुनरावृत्तिनिरोधी न भवतीति भावः । निरोधकारीति । कर्तरि धञिति भावः । कारणान्तरेण पुनरावृतिप्रसङ्गविरहेऽपि परमात्मनः स्वतन्त्रत्वेन स कदाचित् पुनरावृत्तिसङ्कल्पं यदि कुर्यात् तर्हि किं कर्तव्यमिति शङ्कापरिहारायायं वाक्यशेषः । 'ज्ञानी त्वात्मैव मे मतम्’ ‘स च मम प्रियः' ' तेषु चाप्यहम्' इति वदतस्तस्य तादृशासङ्कल्पकरणे कः प्रसङ्ग इति विवक्षितमित्यशय- । एवमत्र प्रतिपादितस्य. अपुनरावृत्ति