पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२] चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतम् अपि च - विद्यावन्त्यपि कीर्तिमन्त्यपि सदाचारावदातान्यपि प्रोच्चैः पौरुषभूषणान्यपि कुलान्युद्धर्तुमीशः क्षणात् ॥ ३१ ॥ H लोभः – तृष्णे, इतस्तावत् । ( प्रविश्य तृष्णा ) तृष्णा – *किं आणवेदि अज्जउत्तो । लोभः– प्रिये, श्रूयताम्- क्षेत्रग्रामवनाद्विपत्तनपुरद्वीपक्षमामण्डल- - ८३ प्रत्याशायतसूत्रबद्धमनसां लब्धाधिकं ध्यायताम् । तृष्णे देवि यदि प्रसीदसि तनोष्यङ्गानि तुङ्गानि चे- तद्भोः प्राणभृतां कुतः शमकथा ब्रह्माण्डलक्षैरपि ॥ ३२ ॥

  • किमाज्ञापायत्यार्यपुत्रः ।

रोऽच्छिनत् । कौशिको विश्वामित्रो वसिष्ठतनयाञ्शतादीनाघातयत् । धातुयो- गे आङ् | घातयद्धातितवान् । कल्माषपादेनेति शेषः । स्वकीयमहिम्नो निर्मल- तामाह - अपि चेति । विद्यावन्त्यपीत्यादि । प्राशस्त्ये मतुप् । प्रो चैः पौरुष - भूषणानीत्येकं पदम् । यद्वा भिन्नं पदम् । प्रोचैरत्युन्नता इत्यर्थः ॥ ३१ ॥ क्षेत्रत्रा- मेत्यादि । क्षेत्रं शालेयादिकम् । ग्रामः प्रसिद्धः । वनान्याम्रवनादीनि । अद्रयः पर्वता दुर्गार्थाः । पत्तनान्युपनगराणि । पुराणि प्रधाननगराणि । द्वीपा जम्बु- द्वीपादयः । क्षमामण्डलं तत्र प्रत्याशा वाञ्छा सैव आयतसूत्रं तेन बद्धमनसां- च्छेदयामास । कौशिको विश्वामित्रो वसिष्ठतनयाना समन्तात् । सर्वानित्यर्थः । अघातयदमारयत् । क्रोधाक्रान्तानामेतानि चरित्राणीति ध्वनितन् । स्वीयं साक्षा- त्पौरुषमाह। अपिच — विद्येति । अहमीदृशान्यपि कुलानि क्षणाच्छीघ्रमेवोद्धर्तु- मुत्कर्षेण हर्तु नाशयितुमीश: समर्थः । कीदृशानि कुलानि । विद्यावन्ति ज्ञानवन्त्यपि, कीर्तिमन्ति यशस्वीन्यपि, सदाचारेण वेदविहिताचारेणावदातानि निर्मलान्यपि, प्रोच्चैः पौरुषभूषणान्यप्वतिशयेन पुरुषार्थभूषणानि एवंगुणयुक्तानि नाशयितुं समर्थः किं पुनरन्यादृशानीति भावः ॥ ३१ ॥ [ तृष्णा – किमाशापयत्यार्यपुत्रः ।] क्षेत्रग्रा- मेति । क्षेत्रादिमण्डलान्तानि यानि तेषां या प्रत्याशा प्रतिवस्त्वधिकप्राप्तीच्छा तदेव धनं दृढं सूत्रं तेन बद्धं मनो येषां ते । लब्धात्प्राप्तादधिकं ध्यायतां चिन्तयतां प्राण- भृतां जीवानां भोः तृष्णे, यदि प्रसीदसि प्रसन्ना भवसि । अङ्गानि तुङ्गानि चे- १ 'घनसूत्र' इति पाठः । ।