पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबोधचन्द्रोदयम् [द्वितीयोऽङ्कः - लोभः – अये, मदुपगृहीता मनोरंथसरित्परम्पारामेव तावन्न तरिष्यन्ति किं पुनः शान्त्यादींश्चिन्तयिष्यन्ति । पश्य पश्य सखे - सन्त्येते मम दन्तिनो मदजलप्रम्लानगण्डस्थला - वातव्यायतपातिनश्च तुरगा भूयोऽपि लप्स्येऽपरान् । एतल्लब्धमिदं लभे पुनरिदं लब्धाधिकं ध्यायतां चिन्तार्जर्जरचेतसां बत नृणां का नाम शान्तेः कथा ॥ ३० ॥ क्रोधः– सखे, विदितस्त्वया मत्प्रभावः । त्वाष्ट्रं वृ॒त्रमघातयत्सुरपतिश्चन्द्रार्धचूडोऽच्छिन- देवो ब्रह्मशिरो वसिष्ठतनयानाघातयत्कौशिकः । ८२ - प्रतिसंद्धाति । अधीतमपि न स्मरतीत्यर्थः ॥२९॥ अये लोभ इत्यारभ्य चिन्त- यतीत्यन्तं स्पष्टम् ॥ लोभस्य वचः – सन्त्येत इत्यादि । वाताद्वायो- व्ययतं दीर्घमधिकं यथा भवति तथा पातिनः पतन्ति धावन्तीति तथोक्ताः । भूयोऽपि पुनरपरान्लप्स्ये | एतल्लव्धमिदं लभे । इदमधिकं लब्धमिति शेषः । इत्येवमहर्निशं चिन्तयतां चिन्तावशाजर्जरचेतसां नृणाम् । वतेल्यामन्त्रणे । का नाम शान्तिः । न कुनापीत्यर्थः ॥ ३० ॥ एवं लोभेन स्वप्रभावप्रकटने कृते क्रोधः स्वमाहात्म्यं प्रकटयति- सखे इत्यादि । त्वाष्ट्रमिति | लानं लष्टुः पुत्रं वृननामकभघातयद्धिंसितवान् । वज्रेण कर्ना । चन्द्रार्धचूडो रुद्रो ब्रह्मशि- नपि । अपिशब्दात्तान्नाकलयतीत्यर्थः । येनाधीतं पठितं धर्मशास्त्रादि न प्रतिसंदधाति । न मरतीत्यर्थः ॥ २९ ॥ मदुपगृहीता लोभवन्तः । मनोऽभिलापरूपा या नदी परंपरा तामेवेत्यर्थः ॥— सन्त्येत इति । एते मम दन्तिनो गजाः सन्ति । कीदृशा दन्तिनः । मदजलेन मदोदकेन प्रम्लानानि गण्डस्थलानि येषां ते । एते मम तुरगा: सन्ति । कीदृशास्तुरंगा: । वातवद्वायुवव्यायतं विशेषेण विस्तृतं यथास्यात्तथा पतन्ति गच्छन्ति तच्छीलाः । भूयोऽपि पुनरपि परानन्यांलप्स्ये प्राप्स्यामि । किंच एतलब्धं प्राप्तमिदं पुनर्लभे प्राप्नोमि एवं लब्धादधिकं ध्यायतां चिन्तयतां नृणां चिन्तया जर्जरं शिथिलं चेतो येषां तादृशानां प्राणिनाम् । वत इति निश्चयेन । शान्तेः शान्तिमार्गस्य का कथा का वार्ता । अपितु न कापीत्यर्थः ॥ ३० ॥ मत्प्रभाव: सम क्रोधस्य प्रभावः सामर्थ्यमिति योजना ॥–त्वाष्ट्रमिति | सुरपतिरिन्द्रः त्वाष्ट्रं वृत्रं वृत्रासुरमपातयदमारवत् । चन्द्रार्धचूडश्चन्द्रशेखरो देवो ब्रह्मणः शिरोऽच्छिन- १ 'मनोरथनदी' इति पाठः । २ 'झर्झरचेतसां' इति पाठः 1 ३ 'मपातयत्' इति पाठः ।