पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२] चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतम् इदं च वकल्पनाविनिर्मितपदार्थावष्टम्भेन जगदेवं दुर्विदग्धै- यते । तथाहि- यन्नास्त्येव तदस्ति वस्त्विति मृषा जल्पद्धिरेवास्तिकै र्वाचालैर्वहुभिस्तु सत्यवचसो निन्द्याः कृता नास्तिकाः । हंहो पश्यत तत्त्वतो यदि पुनश्छिन्नादितो वर्ष्मणां दृष्टः किं परिणामरूपितचितेर्जीवः पृथकैरपि ॥ १७ ॥ गृह्येते । फलानां स्वर्गादीनां भोक्तेत्यतिशयेन निरङ्कुशा निर्भीका जडधियो वदन्ति । अहो आश्चर्यम् । इयमाशाऽकाशतरोः प्रथीयसः पृथुतरात्प्रसूनात्खादुफलप्र- सूतौ । तद्विषयभूता अतस्तादृशीत्यर्थः । अत्र निदर्शनालंकारः ॥१६॥ इदं चे त्यादि । यदुक्तं तद्रूपपदार्थास्तेषामवष्टम्भेन दुर्विदग्धैर्वैशेषिकादिभिर्जगद्वध्यत एव ॥ – यन्नास्तीत्यादि । यद्वस्तु देहव्यतिरिक्त आत्मापूर्वादिकं नास्त्येव ग्रमाणं तद्वस्त्वस्तीति जल्पन्तः प्रलपन्त एवास्तिकाः सत्यवचसो वयं बहुभिर्वा - चालैः कौमारिलप्रभृतिभिर्नास्तिका इत्यङ्गीकृताः । अहो आश्चर्यम् । पश्यत त- त्त्वतः | तत्त्वमवलम्ब्य विचारणां कुरुतेत्यर्थः । छिन्नात्खण्डितादितो वर्ष्मणो देहात्परिणामरूपितचितेः परिणामभूतसंहतिस्तेन रूपिता तदात्मना निरूपिता चितिश्चैतन्यं यस्य वर्ष्मणस्तस्मात् । अत्र बहुव्रीहिसमाश्रयणात् 'तृतीयादिषु भाषितपुंस्कं-' इत्यादिना पुंवद्भावाचितेरिति रूपसिद्धिर्यद्यस्ति तर्हि हृदयाद्यवय- स आत्मा लोकान्तरितः स्वर्गलोकं गतः फलानां स्वर्गादीनां भोक्तेति यत् इयमा- काशतरोः प्रसूनादाकाशवृक्षपुष्पात्स्वादुफलस्य मधुरफलस्य प्रसूतानुत्पत्तौ प्रथीयसी महती आशेत्यर्थः ॥ १६ ॥ – उक्तेऽर्थे उपपत्तिमाह - इदं चेति । स्वकल्पनया न तु परमार्थविचारणयेत्यर्थः । अवष्टम्भेनाङ्गीकारेण | दुविंदग्धैर्दुर्बुद्धिभिः । – यन्नेति । बहुभिर्वाचालै: कोलाहलरसिकैरास्तिकैर्वैदिकैः नास्तिका वेदबाह्याः सत्यवचस एव निन्द्याः कृता: । कीदृशैरास्तिकैः । यद्वस्तु शरीराद्भिनमात्मस्वरूपं तन्नास्त्येव प्र- त्यक्षेणानुपलम्भात्तद्वस्त्वस्तीति मृपाजल्पद्भिः । ये वयं सत्यप्रमाणवादिनस्ते ना- स्तिकाः कृताः स्वयमप्रमाणं वदन्तः कथमास्तिका इति न विद्म इति तात्पर्य॑म् । स्वगते युक्ति दर्शयति । हंहो इत्याश्चर्येऽव्ययम् । छिन्नाच्छेदितादितोऽस्माद्वर्ष्मण: श- रीरात्पृथग्मिन्नो जीवः कैरपि दृष्टो यदि तर्हि पुनर्वारंवारं तत्त्वतः सम्वक्तया पश्यत विचारयत । अचेतनक्षोण्यारब्धे तत्कथं चैतन्यं तत्राह । परिणामेन रूपान्तरापत्त्या रूपिता उत्पादिता चितिः चैतन्यं यस्य सः क्रमुकादीनां मिलितानां रागजनकत्वव- १ 'स्वकपोलकल्पना' इति पाठः । २ ‘जगदेतैर्दुर्विदग्धैः' इति पाठः ।