पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७० प्रबोधचन्द्रोदयम् [द्वितीयोऽङ्कः अपि च न केवलं जगदात्मैव तावदमीभिर्वच्यते । तथाहि — तुल्यत्वे वपुषां मुखाद्यवयवैर्वर्णक्रमः कीदृशो 'योषेयं वसु चापरस्य तदनुं भेदं न विद्मो वयम् । हिंसायामथवा यथेष्टगमने स्त्रीणां परस्वग्रहे कार्याकार्यविचारणा हि यदमी निःपौरुषाः कुर्वते ॥ १८ ॥ (विचिन्त्य सश्लाघम्) सर्वथा लोकायतमेव शास्त्रं यत्र प्रत्यक्षमेव प्रमाणं पृथिव्यप्तेजोवायवस्तत्त्वानि, अर्थकामौ पुरुषार्थो भूतान्येव वबद्दृश्यत इति भावः ॥१७॥ एते दुर्विदग्धाः परान्नाशयित्वा स्वयमपि नश्यन्ती- लाह-तथाहीत्यादि । तुल्यत्व इति । मुखाद्यवयवैर्वपुषां तुल्यत्वे सति वर्ण- क्रमश्चातुर्वर्ण्यव्यवस्था कीदृशः । किमाक्षेपे । इयं परस्य योषा, इदं परस्य वस्त्रियमुं भेदं वयं न विद्मः । हिः प्रतिद्धौ । एवं सतीत्यर्थः । परहिंसायामथवा परस्त्रीणां यथेष्टगमने परखग्रहे परद्रव्यापहारे वा निःपौरुषाः पौरुषहीनाः सन्तः कार्याका- र्यविचारणाः कर्तव्याकर्तव्यविचारान् । यदिति कस्मादर्थे । कुतो हेतोरित्यर्थः । 'यतो मन्दास्त्वाम्' इतिवद्यदिति । सश्लाघम् । श्लाघा नाम गुणकीर्तनम् । क्रिया- विशेषणमेतत् ॥ १८ ॥ लोकायतशास्त्रप्रतिपाद्यं प्रमाणस्वरूपं प्रमेयस्वरूपं चाह्— प्रत्यक्षमेव प्रमाणम् । एवकारेण प्रमाणान्तराणां प्रत्यक्ष एवान्तर्भावः सूचितः । प्रत्यक्षनिबन्धनव्याप्तिमूलकमनुमानम् । अत एवार्थोत्पत्तिः । अतएव च शब्दे प्रत्यभिज्ञानिवन्धनत्वादुपमापीति प्रत्यक्षान्तर्भूतान्येवेत्यर्थः । पृथिवीति । न्मिलितभूतानां चैतन्योत्पादकत्वमिति भावः ॥ १७ ॥ – न केवल मिति । एवश- ब्दोऽप्यर्थः । अनीभिरास्तिकैर्न केवलं खात्मा वत्र्यते । अपि तु जगदपीत्यर्थः ॥ तुल्यत्वे वपुषामिति । मुखाद्यचयवैर्हस्तपादायवयधैर्वपुषां तुल्यत्वेऽपि शरीराणां साम्येऽपि वर्णक्रनो ब्राह्मणक्षत्रियवैश्यशूद्रा वर्णास्तेषां क्रमो धर्मनिरूपणरूपः की- दृशः । न युक्तिसह इत्यर्थ: । किंच इयं स्त्री वसु च इयं परस्य स्त्री परस्य वा धनं यद्यस्माद्धेतोरयं भेदस्तममुं भेदं वयं न विद्मो न जानीमः | आस्तिककल्पित भेदव्य- वहारोऽनर्थंक इत्याह । हिंसायां वैदिकहिंसायाम् । अथ वा अथ च स्त्रीणां यथेष्टगमने यथेच्छं स्वपरस्त्रीणां पर्वकालादावपि सुरताभ्यासे परस्वग्रहे परधनग्रहणे कार्याकार्य- कथाः कर्तव्याकर्तव्यविचारा यद्यपि वपुषां साम्यं स्त्रीपुंभिदा न तथापि निष्पौरुषाः पुरुषार्थहीना: कुर्वते । अर्थकामावेव परमपुरुषार्थी न धर्मो नापि मोक्षस्तत्र माना- भावादिति भावः || १८ || साधं सगर्व लोकायतमेव शास्त्रम् । चार्वाकशास्त्रमे- १ 'स्त्री चेयं वसु वा परस्य यदनुं' इति पाठः | २ 'कार्यकथास्तथापि' इति पाठः ।