पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबोधचन्द्रोदयम् उच्छ्रीयन्तां समन्तात्स्फुरदुरुमणयः श्रेणयस्तोरणानां धूयन्तां सौधमूर्धवमरपतिधनुर्धामचित्राः पताकाः ॥ १५ ॥ दम्भः – आर्य, प्रत्यासन्नोऽयं महाराजः । तत्प्रत्युद्गमनेन संभाव्यतामार्येण । अहंकारः – एवं भवतु । ( निष्कान्तौ ।) - [द्वितीयोऽङ्कः ( प्रवेशकः । ) (ततः प्रविशति महामोहो विभवतश्च परिवारः ।) महामोह: – (बिहस्य) अहो, निरङ्कुशा जडधियः । आत्मारित देहेव्यतिरिक्तमूर्तिर्भोक्ता स लोकान्तरितः फलानाम् । आशेयमाकाशतरोः प्रसूनात्प्रथीयसः खादुफलप्रसूतौ ॥ १६ ॥ प्रसारिता मुक्ताः स्रज इव प्रसरन्वित्यर्थः ॥ १५ ॥ प्रवेशक इति । निरूपित इति शेषः । ‘अङ्कयोर्मध्यवर्ती च नीचपात्रप्रवेशितः । विष्कम्भ इव नान्द्यज्ञैः प्रवेशक इति स्मृतः ॥' अङ्कयोर्मध्यवर्तीत्यनेन प्रथमाङ्के प्रवेशको नास्तीत्यव- गन्तव्यम् । यथा शाकुन्तले चतुर्था । यद्यपि दम्भाहंकारयोः सर्वदूषकत्वान्नी- चपात्रत्वेन प्राकृतभाषयैव भवितव्यम्, तथापि 'कार्यतश्चोत्तमादीनां कार्यो भाषाविपर्ययः' इति वचनात्संस्कृतभाषाश्रयणं दम्भाहंकारयोर्दूषकत्वेनैव नीचत्वं न तु जात्या अतश्च संस्कृतभाषाश्रयणम् । प्रवेशकः प्राकृतभाषयैव वक्तव्य इति नियमाभावाद्दम्भाहंकारौ नीचौ विद्वांसौ च । ततः प्रविशती- त्यादि । बार्हसल्यमतमाश्रित्याह- आत्मास्तीत्यादि । देहाव्यतिरिक्तम्- तिर्देव्यतिरिक्त आत्मास्ति । स च लोकान्तरितः । अत्र लोकशब्देन देशकालो हाणामलंकरणं सूचितन् । सौधमूधंतु प्रासादमस्तकेष्वमराणां देवानां पतिरिन्द्रस्तस्य धनुषो धाम स्वरूपं तद्वद्विचित्रा नानारूपाः पताका धूयन्तां कल्प्यन्तान् । अनेन नगरद्वारपरिष्कारो ध्वनितः । इदं सर्व महामोहप्रवृत्तिजनकमिति सूचितम् ॥ १५ ॥ प्रत्यासन्नोऽतिसमीपमागतः तत्प्रत्युद्गमनेनेति यस्मात्कारणादतिनिकटवर्ती तत्तस्मा- त्कारणात् । प्रत्युद्गमनेन । संमुखगमनेनेत्यर्थः ॥ – तत इति । विभवेनेति । विभ- वतः स्वसामर्थ्येन महामोहः प्रविशतीत्यन्वयः । चकारो भिन्नक्रमः । परिवारश्च सेवकवर्गश्च प्रविशतीत्यस्यानुषङ्गः । निरङ्कुशा जडधियः । निर्मर्यादा मूढाः ॥ - । —नि रङ्कुशत्वं प्रकटयति लोकायतिकमतेन–आत्मेति । देहाव्यतिरिक्तमूर्तिरात्मास्ति १ 'सहपरिवार:' इति पाठः । २ 'देहाद्व्यतिरिक्त' इति पाठ: । ३ 'प्रथी- यसी' इति पाठः ।