पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबोधचन्द्रोदयम् द्वितीयोऽङ्कः । (ततः प्रविशति दम्भः ।) यथा-वत्स दम्भः - आदिष्टोऽस्मि महाराजमहामोहेन । दम्भ, प्रतिज्ञातं सामात्येन विवेकेन प्रबोधोदयाय । प्रेषिताश्च तेषु तेषु तीर्थेषु शमदमादयः । स चायमस्माकमुपस्थितः कुलक्षयो भव- द्भिरवहितैः प्रतिकर्तव्यः । तत्र पृथिव्यां परमं मुक्तिक्षेत्रं वाराण- ५०. [द्वितीयोऽङ्कः इतः परं प्रतिमुखसन्धिः प्रस्तूयते 'बिन्दुप्रयत्नयोः संबन्धः प्रतिमुख- सन्धिः' इति । तल्लक्षणमुक्तम्– 'लक्ष्यालक्ष्य इवोद्भेदस्तस्य प्रतिमुखं भवेत् । विन्दुप्रयत्नानुगमादनान्यस्य त्रयोदश ॥' अस्यार्थः— तस्य बीजस्य किंचि लक्ष्य इवोद्भेदः प्रकाशनम् । तत्प्रतिमुखं नाम बीजमेव महाकार्यावान्तरभे- दादनेकविधम् । अवान्तरकार्येण प्रधानकार्यविच्छेदे यदविच्छेदकारणवत्तद्वि- दुरिति । तदुक्तं दशरूपके — 'अवान्तरार्थविच्छेदे बिन्दुरच्छेदकारणम्' इति । तस्याङ्गानि त्रयोदश—‘विलासः परिसर्पश्च विधूतं शर्मनर्मणी । नर्मद्युतिः प्रगमनं निरोधः पर्युपासनम् ॥ पुष्पं वज्रमुपन्यासो वर्णसंहार इत्यपि ॥” इति । एतेषां स्वरूपमुदाहरणनिरूपणसमये निरूपयिष्यामः । द्वितीयाङ्कपात्रं नेपथ्यसंज्ञकेनो- पसन्धिनोपक्षेसुकामः कथासंघट्टनमात्रस्वरूपं नीचपात्रप्रयुक्तं प्रवेशकं नाम संध्यन्तरालं तावदाह — ततः प्रविशति दम्भ इति । अत्र दूतकृसं नामो- पसन्धिः । यथोक्तम्–‘प्रश्नो दूतश्च लेख्यं च नेपथ्योक्तिस्तथैव च । आकाश- भाषणं चेति विज्ञेयाः पञ्च सन्धयः ॥ इति । दम्भस्य महामोहदूतत्वात्सूचनां विनैव प्रवेशः । ‘अनासूचितपात्रस्य पटाक्षेपात्प्रवेशनम् । राजादेरपि चादेशा- दद्भुतादिप्रदर्शनात् ॥’ आदेशप्रकारमाह-वत्स दम्भ इति । राज्ञस्तस्मिन्वा- त्सल्यं दर्शयति- प्रतिज्ञातमित्यादि । प्रबोधोदयाय सामात्येन विवेकेन प्रतिज्ञा तमित्यन्वयः । तत्रोपायोऽपि कृत इत्याह —–शमदमेत्यादि । शमदमादयः ग्रे- पिताः । स चायमित्यादि । स चायं कुलक्षय इत्यन्वयः । तत्र पृथिव्यामित्यादि । पृथिव्यां परमं मुक्तिक्षेत्रं वाराणसीति । तथाच श्रुतिः – ‘अथ हैनमन्त्रिः प- प्रथमेऽङ्केऽज्ञानकृतो निखिलोऽपि भेदावभास आत्माद्वैतावभासान्निरस्यत इति प्रतिपाद्य विवेकोद्योगमुपश्रुत्य इदानीं द्वितीयेऽके महामोहोऽपि तत्तद्धर्मानुष्ठानवैफ- ल्याय दम्भादीन्प्रेषयति । तथोक्तं 'दम्भं विना यः क्रियते स धर्मः' इति । ततः प्रविशति दम्भ इत्यादि । सामात्येन अमाला मत्रिणस्तत्सहितेन । अवहितैरवधा- नयुक्तैः । सावधानैरित्यर्थः । प्रतिकर्तव्यो दूरीकर्तव्य: । निःश्रेयसविघ्नार्थं मोक्षप्रतिव- ।