पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२] चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतम् सीनाम नगरी । तद्भवांस्तत्र गत्वा चतुर्णामप्याश्रमाणां निःश्रेयस- विनार्थ प्रयततामिति । तदिदानीं वशीकृतभूयिष्ठा मया वाराणसी । संपादितश्च स्वामिनो यथानिर्दिष्ट आदेशः । तथाहि मदधिष्ठि - रिदानीम् - वेश्यावेश्मसु सीधुगन्धिललनावक्रासवामोदितै- नत्वा निर्भरमन्मथोत्सैवरसैरुन्निद्रचन्द्राः क्षपाः । सर्वज्ञा इति दीक्षिता इति चिरात्प्रासामिहोत्रा इति ब्रह्मज्ञा इति तापसा इति दिवा धूर्तेर्जगद्वञ्च्यते ॥ १ ॥ प्रच्छ याज्ञवल्क्यम् । य एषोऽनन्तोऽव्यक्त आत्मा कथमहं विजानीयामिति । सहोवाच याज्ञवल्क्यः । सोऽविमुक्त उपास्यो य एषोऽनन्तोऽव्यक्त आत्मा सोऽवि- मुक्ते प्रतिष्ठित इति । सोऽविमुक्तः कस्मिन्प्रतिष्टितः वरणायामस्यां च मध्ये प्रतिष्ठित इति । का वरणा काचाऽसीति सर्वानिन्द्रियकृतान्दोषानस्यत इत्यनेना- सीभवति' इति । अतो वाराणसीति निर्वचनम् ॥ – तदिदानी मित्यादि । वशीकृतभूयिष्टा अत्यन्तवशीकृता । मयूरव्यंसकादित्वात्समासः । संपादितश्चे- त्यादि । संपादितः संपादितप्राय इत्यर्थः । मधिष्ठितैर्मदधीधूर्तेरियन्वयः ॥ — वेश्यावेश्म स्वित्यादि । वेश्यानां वाराङ्गनानां वेश्मसु सद्मसु सीधुर्मद्यं तद्गन्ध इव गन्धो येषां तानि सीधुगन्धानि तानि च तानि ललनावकाणि च तेष्वासवो मदिरा तेन मोदिताः संजातमोदास्तैः । हृटैरित्यर्थः । यद्वा सीधुना मद्येन गन्धो गर्वस्तद्युक्ताश्च ता ललनाश्च । मध्यमपदलोपी समासः । शेषं समानम् । निर्भरमन्मथोत्सवरसैः मन्मथोत्सवा मन्मथकेलयः तेषु निर्भर उत्कृष्टो रसः प्रीतिर्येषां तैः । उन्निद्रचन्द्राः प्रकाशमानश्चन्द्रो यासु ताः क्षपा रात्रयस्ताः । अनोन्निद्रचन्द्रपदेनोद्दीपनविभावः कथितः । नीत्वा गमयित्वा रात्रौ वेश्याभिः न्धार्थ प्रयततामतिशयितो यत्नः क्रियताम् । अल्पयत्लेन न भवतीति भावः । यथा- निर्दिष्ट: यथात्वेनोक्तः । आदेश आज्ञा । मदधिष्टितैरिति । मया दम्भेनाधिष्ठितैः | दाम्भिकैरित्यर्थः ।।—वेश्येति । धूर्तेर्वञ्चकैर्दिवादन एव जगन्नरनारीसमुदायात्मकं इति अनेन प्रकारेण सर्वज्ञत्वादिव्यपदेशेन बच्यते प्रतार्यते । किं कृत्वा । वेश्या- वेश्मसु वारविलासिनीमन्दिरेषु क्षपा रात्रीनीत्वातिवाय । कीदृश्यः क्षपाः । उन्निद्रः प्रकाशयुक्तः प्रकटश्चन्द्रो यासु ताः । कीदृशैः । सीधु मद्यं तद्गन्धो यत्र तादृशं ललनावक्रं कामिनीमुखं तत्रासवो मादकद्रव्यविशेषो मदिरा वा तया मो- १ 'मया यया' इति पाठः । २ 'त्सवरति' इति पाठ: ।