पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१] चन्द्रिका-प्रकाशाख्यटीकाद्वयोपेतम् । तद्भवतु । प्रस्तुतविधानाय शमादीन्योजयामः (इति निष्क्रान्तौ मतिविवेकौ । ) इति श्रीकृष्णमिश्रयतिविरचिते प्रबोधचन्द्रोदये प्रथमोऽङ्कः ॥ १ ॥ त्वातिष्ठत्' इति वचनात् ॥ ३१ ॥ अत्र भेदो नाम मुखसन्धेरेकादशमङ्गम् । ना- यिकया नायकस्य प्रोत्साहकरणात् । तल्लक्षणं तु– 'भेदः प्रोत्साहकरणम्' । तद्भ- वत्वित्यादि । अत्र शमादियोजनेन प्रकृतारम्भकरणं नाम द्वादशमङ्गं निरूपि- तम् । तल्लक्षणम् 'करणं प्रकृतारम्भः' इति । अत्र सा खलु विवेकेनोपनिषद्देव्यां प्रबोधचन्द्रेण भ्रात्रा समं जनयितव्येत्यत्र कथाबीजमुढङ्कितम् –‘स्वल्पोद्दिष्टः कार्यहेतुर्वीजं विस्तार्यनेकधा' ॥ प्रथमं स्वल्पत्वोद्दिष्टः पश्चादनेकधा विस्तारिहेतुर्व- क्ष्यमाणस्य कार्यस्य हेतुतयाऽर्थकृतस्तद्वीजमुच्यते । औत्सुक्यमारम्भः फ- ललाभाय भूयसे' इति । इदमहं संपादयामीत्यध्यवसायमात्रमारम्भ इत्युक्तम् । प्राक्करणं प्रकृतारम्भः । अनयोः साधने सन्धिः । एतदुक्तं भवति । 'आद्यन्तमेवं निश्चिय पञ्चधा तद्विभज्य तु । खण्डं सन्धिश्च संज्ञास्तान्भागानपि च खण्डयेत् ॥ चतुःषष्टिश्च तानि स्युरङ्गानीति विदुर्बुधाः | अङ्गहीनो नरो यद्वन्नैवारम्भक्षमो भवेत् ॥ अङ्गहीनं तथा नाट्यं न प्रयोगक्षमं भवेत् ॥' इति । अतोऽङ्गनिरूपणं नाटकादावावश्यकम् । निष्क्रान्तौ मतिविवेकौ । प्रथमोऽङ्कः इति । अङ्कशब्दश्चि- हृवाची । अयते नायकतादात्म्यं नटेनात्रेत्यङ्कः । अङ्कलक्षणम् -'प्रत्यक्षनेतृचरितो बीजबिन्दुसमन्वितः । अको नानाप्रकारार्थसंविधानरसाश्रयः ॥ एकाहे वैकरात्रे वा चरित्रं यत्र वर्ण्यते । प्रयुक्तैः पञ्चषैः पात्रैस्तेषामन्ते विनिर्गमः ॥' अत्र नेतृश- ब्देन नायकानायकप्रतिनायिका गृह्यन्ते । तेषां नेतॄणां चरितं प्रत्यक्षनेतृचरितं रङ्गप्र- देशे प्रकाश्यं यत्र स तथोक्तः । प्रसक्तार्थोपसंहारी प्रसक्तार्थस्योपसंहारो यस्मिन्निति स तथोक्तः । पताकास्थानकेनान्वितः । पताकास्थानकलक्षणं वक्ष्यते-नानाप्रका- राणि बहुविधान्यर्थानामभिधेयानां संविधानानि रचनाविशेषाःयत्र रसे स तथोक्त- स्तद्रसस्याश्रयः स्थानम् । एवंविधवस्तुविभागोऽङ्क इत्युच्यते । शेषं सुगगम् || इति श्रीमद्राजाधिराजपरमेश्वरश्रीवीरप्रतापश्रीकृष्णरायमहाराजसाम्राज्यधुर- न्धरश्रीसाल्वतिम्मदण्डनायकभागिनेयनाण्डिल्लगोपमन्त्रिशेखरविरचितायां प्रबोधचन्द्रोदयव्याख्यायां चन्द्रिकासमाख्यायां प्रथमोऽङ्कः ॥ १ ॥ परमेश्वरः पुरेषु नरकायादिष्वेक एव बहुधा विभज्य बना क्षिप्वा प्रवेश्य नृत्योः पदं जननमरणस्थानं प्रापितः ॥ ३१ ॥ — प्रस्तुतविधानाय पूर्वोक्तार्थसिद्धये । प्रबोधोत्पत्तये- ऽद्वितीयात्मसाक्षात्कारोत्पत्तये ॥ इति श्रीप्र०दयव्याख्याने प्रकाशाख्ये प्रथमोऽङ्कः ॥१॥ ४९ १ 'विधानाय प्रारब्धकरणीयविशिष्टदेशकालपात्रेषु प्रबोधोत्पत्तये शमादीन्' इति पाठः । २ 'निष्क्रान्ताः सर्वे' इति पाठः ।