पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८ प्रबोधचन्द्रोदयम् बको बहुधा विभज्य जगतामादिः प्रभुः शाश्वतः क्षिप्त्वा यैः पुरुषैः पुरेषु परमो मृत्योः पदं प्रापितः । तेषां ब्रह्मभिदां विधाय विधिवत्प्राणान्तिकं विद्यया प्रायश्चित्तमिदं मया पुनरसौ ब्रह्मैकतां नीयते ॥ ३१ ॥ [प्रथमोऽङ्कः ु स परिज्ञेयो यत्र गूढार्थसूचनम् ॥ ३० ॥ -बक इत्यादि । एकोऽद्वितीयो जगतामादिर्जगदुपादानं । तत्त्वादिवदनित्यः किं नेत्याह । शाश्वत इति । 'शाश्व- त शिवमव्ययम्' इति श्रुतेः । परमो विभुः स्वामी यैः पुरुषैः पुत्रायितैर्मनोभिः पुरेषु लिङ्गदेहेषु क्षिप्त्वा निधाय मृत्योः पदं संसारितां प्रापितः, मरणं च प्रापित इत्यवगम्यते । परं नाम ज्ञानेन्द्रियपञ्चकम्, कर्मेन्द्रियपञ्चकम् अहंकारादिचतु- श्यम्, प्राणादिपञ्चकम्, वियदादिपञ्चकम् अविद्याकामकर्माणीत्यष्टपुराणि । यथोक्तं संक्षेपशारीरके–'कर्मेन्द्रियाणि खलु पञ्च तथा पराणि बुद्धीन्द्रियाणि च मनोक्षचतुष्टयं च । प्राणादिपञ्चकमथो वियदादि पञ्च कामश्च कर्म च मतः पुनरष्टमीषु ॥' पुनःपातित्वमपि पुनरपि व्यपदेष्टुं शस्यते । पुरान्तः- पातित्वं लिङ्गदेहस्योक्तं संक्षेपशारीरके– 'इह तावदक्षदशकं मनसा सह बुद्धितत्त्वमथ वायुगुणः । इति लिङ्गमेतदुदितं त्वमुना सह संगतो भवति जीवः ॥' इति । ब्रह्मभिदां ब्रह्मणो मेदसंपादकानां ब्रह्महन्तॄणामिति च गम्यते । तेषां विधिवद्यथाविधि | क्रियाविशेषणमेतत् । प्रायश्चित्तमिति । प्रायो विनशनं । चित्तं सन्धानं । यथोक्तं धूर्तस्वामिना नवमप्रश्ने श्रुतिलक्षणं 'प्रायश्चित्तं विध्यप- राधे विधीयते' इत्यत्र प्रायः शब्दो विनाशवचनः प्रसिद्धः । चित्तिः सन्धानम् । कस्कादित्वात्सुट् इति । विनष्टानां कर्मणां पुनःसंधानात्मकं कर्मेत्यर्थः । विद्यया प्राणान्तिकम् । निदिध्यासनपर्यन्तमित्यर्थः । विद्यया वेदान्तार्थश्रवणेन प्रायो बहु निश्चितं विधाय मनोविवेकेन पुनरसौ पुरुषो ब्रह्मकतां नीयते प्राप्यते । यद्वा विद्यया वेदान्तार्थज्ञानेन प्राणान्तिकं प्राणावधिकमत्यन्तशरीरशोषणम् । यद्वा द्वादशवार्षिकं नतु भृगुपातादिकम् । ब्रह्मैकतां नीयत इत्यत्र पुनर्ब्राह्मणैः संव्यवहारः प्रतीतेऽस्मिन्प्रतीतार्थे विद्याशब्दः कर्माङ्गभूतज्ञानपरः । — संसारनिवृत्तिस्तदा तया (इनादिमायया) उपनिषद्देव्या नित्यानुबन्ध एवाहंकारा- भिमान्येव नित्यसंगतिरेव भवत्विति प्राकृतान्वयः । अहंकारस्य परमते नित्यत्वा- नाशाभावादिति भावः ॥ - बक इति । मयासावात्मा ब्रह्मकतां चिदानन्दब्रह्मै क्यभावं नीयते । किं कृत्वा । तेषां पूर्वोक्तानां ब्रह्मभिदां ब्रह्मभेदकानां विद्यया ब्रह्माद्वैतसाक्षात्कारेण प्राणान्तिकं देहान्तं प्रायश्चित्तमिदं प्रसिद्धं विधाय कृत्वा । ते- षामित्यत्र ते के । यैर्जगतामादिः प्रभुः स्वतन्त्रः शाश्वतोऽविनाशी एवंभूतोऽपि पुरुष: ।