पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१] चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतम् राजा - प्रिये, मानिन्याश्चिरविप्रयोगजनितासूयाकुलाया च्छान्त्यादेरनुकूलनादुपनिषद्देव्या मया संगमः । तूष्णीं चेद्विषयानपास्य भवती तिष्ठेन्मुहर्ते ततो भवे- जाग्रत्खमसुषुप्तिधामविरहाप्राप्तः प्रबोधोदयः ॥ ३० ॥ - मतिः – *अजउत्त, जैदि एवं कुलप्पहुणो दिढग्गंथिणिब- स्स वि बन्धमोक्खो भोदि तदो ताए णिच्चानुबन्धो जेव्व अज्जउत्तो भोदु त्ति सुट्ट मे पिअम् । राजा – प्रिये, यद्येवं प्रसन्नासि सिद्धारतर्ह्यस्माकं मनोरथाः । तथा हि- ४७

  • आर्यपुत्र यद्येवं कुलप्रभोर्दृढग्रन्थिनिबद्धयापि बन्धमोक्षो भवति

तदा तया नित्यानुबन्ध एवार्यपुत्रो भवत्विति सुष्ठु मे प्रियम् । सापरावं कान्तान्तरासङ्गवशादिति हृद्भुतम् ॥ — मानिन्या इति । मानिन्या मानवत्याः । मानो नाम स्त्रीणां प्रियेऽन्यासङ्गिनि सतीर्ष्याकृतः कोपः । शान्त्यादे- रिति पञ्चम्यनुकूलनान्नायिकानायकयोरित्यर्थः । जात्स्वप्नेत्यादिव्याख्या । अत्रो- द्भेदो नाम मुखसन्धेर्दशममङ्गं सूचितम् ॥ गूढार्थभेदसूचनात् । तल्लक्षणम्-‘उद्भेदः सितं मतेः काळुष्यं त्याजयति —–—मानिन्या इति । यदि उपनिषद्देव्याः मया सह संगम: स्यात्तदा प्रबोधोदय: प्राप्त इत्यन्वयः । कीदृश्या उपनिषद्देव्या । मानिन्याः 'स्त्रीणामीर्ष्याकृतः कोपो मान इत्यभिधीयते' इति लक्षणादीयकृतकोपवत्याश्चिरं वि- प्रयोगो वियोगस्तेन जनिता यासूयेर्ष्या तयाकुलायाः व्याकुलायाः । संगमे हेतुः । शान्त्यादेरनुकूलनादिति । हेत्वन्तरमाह — भवतीति । भवती विषयानपास्य मुहूर्त तूष्णीं तिष्ठेच्चेत्तदा जाग्रत्खनसुषुप्तिधामविरहादिति । धामशब्दोऽन स्थानवाचकः । ‘धामानि त्रीणि भवन्ति स्थानानि जन्मानि नामानि' इति नैरुक्तम् । तथा चायमभि- प्रायः । जामदाद्यभिमानस्थानाभावाच्छान्त्यादिमतो विचारप्रवृत्तस्य बुद्धेर्व्यासङ्गा- भावात्प्रबोधोत्पत्तिरिति ॥ ३० ॥ [ मतिः – आर्यपुत्र, यदि एवं कुलप्रभोर्दृढग्रन्थिनिव- दुस्यापि बन्धमोक्षो भवति, तदा तया नित्यानुबन्ध एवार्यपुत्रो भवत्विति सुष्ठु मे प्रियम् । आर्यपुत्र, दृढग्रन्थिरहंकारस्तन्निवद्धस्य तदभिमानिनोऽपि यदि बन्धमोक्षः - १ 'जइ एव्वं' इति पाठः । २० तर्हि चिरमस्माकं' इति पाठः ।