पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४ प्रबोधचन्द्रोदयम् [प्रथमोऽङ्कः वना वर्षीयसी । अयं पुराणपुरुष: खभावादेव विषयरसविमुखः । ततः स्वतनयमेव पारमेश्वरे पदे निवेशयामीति तमेव मातुरभिप्राय- मासाद्य नितान्ततत्प्रत्यासन्नतया तद्रूपतामिवापन्नेन मनसा नवद्वाराणि पुराणि रचयित्वा । एकोऽपि बहुधा तेषु विच्छिद्येव निवेशितः । स्वचेष्टितमथो तस्मिन्विदधाति मणाविव ॥ २८ ॥ मायापक्षे वर्षीयसी महेश्वरा सावसानेत्यर्थः । अयं पुराण इति । अयं च पुरुषः पतिः पुराणो वृद्धः खभावादेव विषयरसविमुखः विषयेषु शब्दादिषु रसः ग्रीतिस्तत्र विमुखः । निःस्पृह् इति यावत् । दम्पत्योर्वार्धक्यं जातमिति । तत्तस्मा- त्कारणात्स्वतनयमेव मनोनामकं पारमेश्वरपदे जगत्कर्तृकत्वनियन्तृत्वाद्यधिकारे निवेशयामीति चिन्तितमिलन्वयः । तमेवैवं प्रकारं मातुरभिप्रायं सम्यगासाद्य | मातरं सेवया प्रसाद्येत्यर्थः । विदित्वा विज्ञाय नितान्तमत्यर्थं प्रत्यासन्नः संनिहि- तस्तस्य भावस्तत्ता तथा । लोके प्रेमास्पदीभूतो राजकुमारोऽधिकारार्हस्तद्रूपतां मातृरूपताम् । तद्गुणाविष्टतामित्यर्थः । यद्वा तद्रूपतामीश्वररूपतां सर्वाद्वैतताम् । तस्यैव वियदादिसृष्टेरपि कर्तृत्वाशीकारात् । आपन्नेन प्राप्तेन । मनसः पुरा- णोपादानत्वात्स्वोपादानभूतविद्यापेक्षया प्रत्यासन्नेनोपादेयभूतदेहात्मतां प्राप्तेन मनसोपादानभूतेन नव द्वाराणि पुराणि रचयित्वा । – एकोऽपीति । नव- द्वारपुरात्मनावस्थितेनेत्यर्थः । तेषु पुरेष्वेकोऽपि देवो बहुधा बहुप्रकारेण विच्छिद्य विच्छेदं कृत्वा निवेशितो निक्षिप्तः । अथो तदनन्तरं तरिमन्देवे स्वचेष्टितं देहधर्मं स्थूलोऽहं कृशोऽहं काणोऽहं बधिरोऽहं कामवानहं संकल्पवा- नहमित्यादिकं विदधाति विशेषेण परिकल्पयति । कथम् । मणाविव | यथा मणिस्थितं द्रव्यं मणिधर्मकं भवति तद्वन्मनःस्थितो देहाश्रितश्च मनोधर्मको देहवर्मकः प्रतिभातीत्यर्थः । यद्वा मणिसमीपस्थितः खधर्म मणौ दर्शयति त- धरे पदे आत्मत्वव्यवहारविषये स्थाने निवेशयामि । स्थापयामीत्यर्थः । नितान्त- प्रत्यासन्नयाभेदसंबन्धेन । नवद्वाराणि पुराणि शरीराणि ॥ — एक इति । तेषु रेष्वेकोऽप्येक एव परमात्मा विच्छिद्येव पृथक्कत्येव बहुधानेकप्रकारेण विनिवेशित इव प्रवेशित इव । बिम्बप्रतिबिम्बन्यायेन प्रवेश इत्यर्थः । अथोऽनन्तरं तस्मिन्स्व- चेष्टितं कर्तृत्वभोक्तृत्वसुखित्वदुःखित्वादिधर्म विदधाति प्रक्षिपति । तत्र दृष्टान्तः । मणाविव । यथाजपादिरुपाधिः स्वधर्म रक्तत्वादिकं मणौ प्रक्षिपति तद्वदित्यर्थः ॥२८॥ १ ‘० शयामि । तमेव - नितान्तप्रत्यासन्न - पुराणि निर्माय' इति पाठः ।