पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१] चन्द्रिका-प्रकाशाख्यटीकाद्वयोपेतम् ४३ राजा- - न खलु प्रयोजनं कारणं वा विलोक्य माया प्रवर्तते । स्वभावः खल्वसौ स्त्रीपिशाचीनाम् । पश्य- • संमोहयन्ति मदयन्ति विडम्बयन्ति निर्भर्त्सयन्ति रमयन्ति विषादयन्ति । एताः प्रविश्य सदयं हृदयं नराणां किं नाम वामनयना न समाचरन्ति ॥ २७ ॥ अस्ति चापरमपि कारणम् । मतिः- -*अज्जउत्त, किं णाम तक्कारणम् ? | राजा- - एवमनया दुराचारया 'विचिन्तितं यदहं तावद्द्वतयौ-

  • आर्यपुत्र, किं नाम तत्कारणम् ।

नेन बीजानुसंधानात् । तलक्षणं तु—–'यद्वीजस्यानुसंधानं तत्समाधानमिष्यते' इति ॥ २६ ॥ —न खल्वित्यादि । मायायाः स्वभावात्स्वपर्यनुयोज्यः । तदेव सदृष्टान्तमाह – खभावः खल्वित्यादि – संमोहयन्तीत्यादि । संमोहयन्ति संमोहवन्तं कुर्वन्ति । मदयन्ति मादयन्ति । घटादित्वेन मित्त्वात्पाक्षिको ह्रखः । विडम्बयन्त्युपहसन्ति, निर्भर्त्सयन्ति ताडयन्ति, रमयन्ति क्रीडयन्ति, विषा- दयन्ति खेदयन्ति । एताः कान्ता नराणां हृदयं सदयं रसाईं यथा भवति तथा प्रविश्य । पुरुषान्वशीकृत्येत्यर्थः । वामनयनाः किं नाम न समाचरन्ति । अपितु सर्वमपि समाचरन्ति । पुरुषं युक्तायुक्तविचारशून्यं कुर्वन्तीत्यर्थः । अत्र विधानं नाम मुखसन्धेरटममङ्गं प्रतिपादितम् । तथोदारचरितं दुर्विदग्धा प्रता- रयतीत्यनेन दुःखाभावरूपं सुख प्रतीयत इति । तल्लक्षणं तु– 'सुखदुःखकरं यत्त द्विधानं परिकीर्तितम्' इति ॥ २७ ॥ – एवमनयेत्यादि । एवं वक्ष्यमाणप्रकारं विचिन्तितं विशेषेण चिन्तितं निश्चितं यद्यस्मात्कारणादहं । मायावचनमेतत् । गतयौवना पुरुषप्रेमानास्पदम् । वेदान्तपक्षे यौवनशब्दोऽवस्थामात्रपरः । सर्वा वस्थाशून्याविद्याऽनादिरित्यर्थः । वर्षीयसी वृद्धतरा उपभोगायोग्या । वृद्धश- ब्दस्य ‘प्रियस्थिर–’ इत्यादिना वर्षादेशे ईयसुनि कृते 'उगितश्च' इति ङीप् । - र्यम् ।।—संमोहयन्तीति । वामनयना: कपटदृष्टय: सदयं यथा स्यात्तथा नराणां हृदयं प्रविश्य किं नाम न समाचरन्ति । विडम्बयन्ति । अनुकुर्वन्तीत्यर्थः । शेषं सुगमन् ॥ २७॥ [ मतिः — आर्यपुत्र, तत्किम् ] – एवमनयेति । स्वतनयं मनोरूपं पारमे- १ 'तं किम्' इति पाठः । २ 'चिन्तितं अहं' इति पाठः ।