पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१] चन्द्रिका-प्रकाशाख्यटीकाद्वयोपेतम् ४५ मतिः —*(विचिन्त्य) अज्जउत्त, जादिसी मादा पुत्तको वि तादिसो जेव्व जादो । — राजा -- ततोऽसावहंकारेण चित्तस्य ज्येष्ठपुत्रेण नप्ला परि- प्वक्तः । ततश्चासावीश्वरः । जातोऽहं जनको ममैष जननी क्षेत्रं कलत्रं कुलं पुत्रा मित्रमरातयो वसु बलं विद्याः सुहृद्धान्धवाः । चित्तस्पन्दितकल्पनामनुभवन्विद्वानविद्यामयीं निद्रामेत्य विघूर्णितो बहुविधान्खप्नानिमान्पश्यति ॥ २९ ॥

  • आर्यपुत्र, यादृशी माता पुत्रोऽपि तादृश एव जातः ।

थात्मसंबन्धं देहादिस्वधर्ममात्मनि परमात्मनि दर्शयतीत्यर्थः ॥ २८ ॥ – तत इति । ततः पुरप्रवेशानन्तरं चित्तस्य बुद्धितत्त्वस्य ज्येष्ठपुत्रेण स्वस्य नपत्रा पुत्र- तनयेनाहंकारेणासौ पुरुषः परिष्वक्त आलिङ्गितः । यथा लोके पितामहादीपौत्रा- दयोऽङ्कमासाद्यालिङ्गनं कुर्वन्ति तद्वदित्यहंकाराविष्टः सन्नित्यर्थः ॥ — जात इति । जातोऽहमित्यादीनहंकारविक्षेपाननुभवति । अविद्यामयी मतिः | स्वार्थे मयट् | निद्राम् । अविद्यापरपर्यायामित्यर्थः । विद्वाञ्ज्ञानवान् साक्षी । चित्तस्पन्दितकल्पना- मनुभवंश्चित्तविक्षेपकल्पनां जानानः जाग्रदादीन्स्वप्मान्मनोमात्रैकशरीरान्सृष्टिप्रका- रान्पश्यति । अत्र जाग्रदवस्थां खप्नतया पश्यतीत्याश्चर्यकथनात्परिभावनाख्यं मुखसन्धेर्नवममाम् । तालक्षणम् – परिभावन मित्याद्दुराश्चर्यार्थनिवेदनम्' इ- [ मतिः– आर्यपुत्र, यादृशी माता पुत्रोऽपि तादृश एव जातः ]॥ अवस्थान्तरमप्याह- ततोऽसाविति । असौ परमात्माहंकारेण नपत्रा चित्तस्य ज्येष्ठपुत्रेण परिष्वक्तः अ- हमिति व्यवहारविषयः कृत इति योजना ॥ — ततश्चासावीश्वर इत्यग्रिम श्लोकोपस्का- रकम् ॥ ततः किं स्यादत आह — जातोऽहमिति । विद्वानीश्वरोऽविद्यामयीम- विद्याप्रधानां निद्रामेत्य प्राप्य बहुविधाननेका कारानिमान्स्वप्नान्पश्यति । कीदृशो विद्वान् । विधूर्णितो विस्मृतस्वरूपः । पुनः कीदृशः । चित्तस्य मनसः स्पन्दितं चेष्टितं तस्य कल्पनां रचनामनुपतन्ननुगच्छन् । इमान्कानित्याह - जातोऽहमिति । १ 'मनुपतन्' इति पाठः ।