पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबोधचन्द्रोदयम् [प्रथमोऽङ्कः - रतिः – *अध किं ता एवं रक्खस्सीए उप्पत्ती तुह्माणं पडि- चक्खाणं संमदा | - कामः – बाढम्, सा खलु विवेकेनोपनिषद्देव्यां प्रबोधच- न्द्रेण भ्रात्रा समं जनयितव्या । तत्र सर्व एते शमदमादयः प्रतिपन्नोद्योगाः । WONO किं तस्या एव राक्षस्या उत्पत्तिर्युष्माकं प्रतिपक्षाणां ॐ अथ संमता ? । 1515 श्राव्यो नियतश्राव्यः श्राव्यो योऽर्थस्तु वस्तुनि । अश्राव्यमन्यैरज्ञानमात्मन्येव स्थितं विदुः ॥ तमात्मगतमित्युक्त्वा काव्यबन्धे निवेशयेत् । अथ स्विकेन वि ज्ञेयो नियतश्राव्य इष्यते ॥ विविधः स परिज्ञेयो जनान्तश्चापवारितः । गुह्यो गुह्यतरश्चेति जनान्तोऽपि द्विधा मतः ॥ स्याज्जनान्तिकमित्युक्त्वा वाच्यपूर्वस्त- आपरः । कर्ण एवमिवेत्युक्त्वा ज्ञाप्यः पश्चात्प्रसङ्गतः ॥ परैरलक्ष्यव्यापारं कथि- तोऽर्थोऽपवारितः ॥' अन्येषामदृष्टिगोचरताल्वोष्ठपुटादिक्रियं यथा भवति तथा कथित इत्यर्थः । 'उक्त्वा प्रागपवार्येति पश्चादेनं प्रयोजयेत् । सर्वैराकर्णनी- योऽर्थः श्राव्य इत्यभिधीयते ॥ एवं प्रकाशमित्युक्त्वा तयोरन्ते प्रयोजयेत् ॥ अश्राव्यनियतश्राव्ययोः स्वगतमित्युक्त्वा प्रकाशमिति वक्तव्यम् । अपरार्थे- त्युक्त्वापि प्रकाशमिति वक्तव्यमित्याया षष्ठाङ्कपरिसमाप्तेर्विज्ञातव्यम् । अस्मा- स्विति बहुवचनं मदमानमात्सर्यापेक्षया । जीवत्खिति शतृप्रत्ययेन वर्तमानकाले- नेयमेव प्रबला इति कुतोऽपि विद्योत्पत्तिरिति विद्या समुत्पत्स्यत इति मया किंवदन्तीमात्रं कथितम् । विद्योत्पत्तिः शशविषाणप्रायेत्यर्थः । अथ किमिति सवितर्कप्रश्ने । अत्यर्थमिति अस्मिन्नर्थे निपातः । अथ मुखसंपत्ति प्रस्तौति- सा खल्वित्यादि । सा विद्या । खलु प्रसिद्धौ । विवेकेन राज्ञा उपनिषद्देव्यां प्रबोधचन्द्रेण भ्रात्रा समं जनयितव्या । तत्र च तस्मिन्नर्थे । चकारो वाक्यालं- कारे । प्रतिपन्नोद्योगा दृढतरप्रयत्नाः । इदमिदानीं विज्ञातव्यम् । नाट्यवस्तुप्रयो जनहेतुभूता अर्थप्रकृतयो बीजबिन्दुपताकाप्रकरीकार्यरूपाः पञ्चैव । पुरुषा- श्रिता वर्णा अवस्थाविशेषा आरम्भयत्नप्रात्याशानियताप्तिफलागमरूपाः पञ्चैव । एवं पञ्चकद्वयस्य परस्परसंबन्धे मुखप्रतिमुखगर्भविमर्शनिबर्हणाख्याः पञ्च सन्धयः तयाकुला व्याकुला दृक् यस्याः ॥ २० ॥ - रतिः - [अथ किं तस्या राक्षस्या उत्पत्ति- युष्माकं प्रतिपक्षाणां संमता । ] वाढमवश्यम् । संमतेति शेषः ॥ - सा खल्विति विद्यानावृतब्रह्माकारान्तः करणवृत्तिः । अनावृतब्रह्माकारान्तःकरणवृत्युपहितं । सा