पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतम् कामः – (स्पर्शसुखममिनीय । खगतम्) स्फुरद्रोमोद्भेदस्तरलतरताराकुलदृशो भयोत्कम्पोचुङ्गस्तनयुगभरासङ्गसुभगः । अधीराक्ष्या गुञ्जन्मणिवलयदोर्वल्लिरचितः परीरम्भो मोदं जनयति च संमोहयति च ॥ २० ॥ (प्रकाशम् । दृढं परिष्वज्य) प्रिये, न भेतव्यं न भेतव्यम् । अस्मासु जीवत्सु कुतो विद्योत्पत्तिः । ३३ भुजङ्गाद्यैर्विज्ञेयास्तत्र विक्रियाः ॥ उत्कम्पगात्रसङ्कोचरोमाञ्चस्तम्भगद्गदाः । मुहु- र्निमेषसंभ्रान्तिपार्श्वस्थालम्बनादयः ॥' इति ॥ – स्पर्शसुखमभिनीयेति । स्पर्शेनालिङ्गनेन यत्सुखं हर्षो जायते तदभिनीय । सुखशब्देन सुखानुभावाः पुलकाङ्कुरप्ररोहणप्रियोक्तिस्वेदादयो लक्ष्यन्ते । खगतमात्मगतम् ॥– स्फुरदि- त्यादि । स्फुरन्प्रकाशमानो रोमोद्भेदो यस्मात्सः । परिरम्भणविशेषणमेतत् । अतिशयेन तरले तरलतरे ते च ते तारे ताभ्यां चञ्चलकनीनिकाभ्यामाकुले दृशौ यस्याः सा । अत एवाधीराक्ष्या इति सामिप्रायं विशेषणम् | अधीराक्ष्यादिश- दानां विशेषणमात्रपरत्वेऽपि विशेष्यावगाहित्वेनैव वृद्धव्यवहारः । अत उक्तं वामनेन–'विशेषणमात्रप्रयोगो विशेष्यप्रतिपत्तौ' इति । अतएव रघुवं- शादौ –'निधानगर्भामिव सागराम्बरां', 'जम्भारातीभकुम्भ-' इत्यादि द्रष्टव्यम् । परिरम्भ आलिङ्गनम् । ‘उपसर्गस्य घञ्यमनुष्ये बहुलम्' इति दीर्घः । मोदमा- नन्दं जनयति संमोहयति च । तदेकतानतां संपादयतीत्यर्थः ॥ २० ॥— दृढं परिष्वज्येति । रतेर्भयनिवृत्त्यर्थं दृढपरिष्वङ्गः । प्रकाशमिति क्रिया- विशेषणम् । सर्वैराकर्णनीयमित्यर्थः । तत्र नाटकपरिभाषा विज्ञातव्या- 'अ- जननी माता, सर्व कुलं, कुलान्तः पातित्वादात्माणि भक्षणीय इति सर्व तयैव भक्ष्यम् ।। १९ ॥–[ रतिः – आर्यपुत्र, परित्राहि परित्राहि । ] स्पर्शसुखमभिनीय प्राप्य । स्वगतं मनस्येव ॥— स्फुरदिति । अधीरायाश्चपलाक्ष्याः परीरम्भ आलिङ्गनं मोदमानन्दं जनयत्युत्पादयति संमोहयति च । संमोहो विषयान्तरविस्मरणं तत्करोतीत्यर्थः । कीदृशः परीरम्भः स्फुरन्रोमोद्भेदो रोमाञ्चोद्गमो येन सः । पुनः कीदृशः । भयेनोत्कट: कम्पो ययोस्तौ च तादुत्तुङ्गाबुच्चौ स्तनौ च तयोर्युगं युग्मं तस्य भरस्तदासङ्गेन संबन्धविशेषेण सुभगो मनोहरः । पुनः की- दृशः । गुञ्जच्छब्दायमानं मणिवलयं यस्यां तादृशी दोर्वलिर्बाहुवल्ली तया रचितः संपादितः । कीदृश्या अधीराक्ष्याः । तरलतरातिचपला ताराक्षण: कनीनिका