पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2]EUP] चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतम् - रतिः - *अजउत्त, कहं एदेहिं अप्पणो विनासकारिणीए विजाए उप्पत्ती तेहिं दुव्विणीदेहिं सलाहिजदि ।

  • आर्यपुत्र, कथमेतैरात्मनो विनाशकारिण्या विद्याया उत्पत्ति-

रेतैर्दुर्विनीतैः श्लाघ्यते ? । प्रवृत्ताः । बीजारंभसंधाने मुखसन्धिः, कार्यफलागमयोः सन्धानं निर्वहणसंधि- रिति । संधिर्नामैकेन प्रयोजनेनान्वितानां कथांशानामवान्तरप्रयोजनेन सं- बन्धः । 'नानार्थहेतुरुद्भेदो यत्र बीजस्य तन्मुखम्' इति । यत्र बीजारम्भस- मन्वयरूपे संबन्धे नानार्थानां धर्मार्थकाममोक्षाणामनेकेषां प्रयोजनानां हेतुः कारणं बीजस्योद्भेदः प्रकाशनं भवति स मुखसन्धिः स्तोकोद्दिष्टः सनका विस्तारिकार्यहेतुतत्तद्वीजमधिकफलप्राप्तये यदौत्सुक्यमात्रं पुरुषे भवति स आरम्भो नाम । यथोक्तं दशरूपके— 'औत्सुक्यमात्रप्रारम्भः फललाभाय भूयसे' इति । इदमहं संपादयामीत्यध्यवसायमानमारम्भ इत्यौत्सुक्यशब्देनो- च्यत इति विज्ञेयम् । यथा रत्नावल्याम्–‘प्रारम्भेऽस्मिन्स्वामिनो वृद्धिहेतौ दैवे चेत्थं दत्तहस्तावलम्बे' इत्यादिना सचिवायत्तसिद्धेर्वत्सराजस्य कार्यारम्भ यौगन्धरायणमुखेन दर्शित इति । एवं प्रकृत्यवस्थासन्धानात्मकः सन्धिरिति । स च सन्धिर्द्वादशधासध्रीचीनः । अङ्गानि तु– 'उपक्षेपः परिकरः परिन्यासो विलोभनम् । युक्तिः प्राप्तिः समाधानं विधानं परिभावना ॥ उद्भेदभेदकरणा- न्यन्वर्थानि यथाक्रमम् ॥” इति । एतेषामन्वयप्रकारं लक्षणं तत्तदवसरे निरूपयि- घ्यामः । सा खलु विवेकेनोपनिषद्देव्यां प्रबोधचन्द्रेण भ्रात्रा समं जनयितव्येत्य- नेन कथाबीजमुपलक्षितम् । अयं च बीजन्यास उपक्षेपो नाम मुखसन्धेः प्रथ- ममङ्गम् । नच वाच्यं विष्कम्मे विरसे बीजन्यास उचित इति । तु तस्य प्राशस्त्याद्वीजन्यासात्पूर्वमेव बिरसत्वं विष्कम्भस्य । अत उपरि सरस- त्वमिति विज्ञेयम् | यथाच रत्नावल्यां वत्सराजस्य रत्नावलीप्राप्तेरनुकूलदैवयो- गेन यौगन्धरायणव्यापारो विष्कम्भान्ते न्यस्त इति । अतः प्रथमाङ्के तद्भवतु । प्रस्तुतविधानाय शमदमादीन्नियोजयाम इति प्रस्तुतविधानाध्यवसायमात्रमारम्भे नायकगतावस्थाविशेषो निर्दिष्टः, सा खल्वित्यत्र निर्दिष्टेन कथाबीजेन तद्भवतु प्रस्तुतविधानायेत्यत्र निर्दिष्टस्यारम्भस्य संधानान्मुखसन्धिरुत्पद्यते ॥ - रति- रिति । अत्र परिकरारम्भे 'द्वितीयमङ्गं विद्यायाः श्लाघ्यत्वोकिस्तद्वाहुल्यं परि- चैतन्यं प्रबोधचन्द्रः । रतिः - [आर्यपुत्र, कथमेतैरात्मनो विनाशकारिण्या विद्याया उत्पत्तिस्तैर्दुर्विनीतैः श्लाघ्यते । ] विद्याया उत्पत्तिः कथं श्लाघ्यत इति प्राकृतयो-