पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८ प्रबोधचन्द्रोदयम् [प्रथमोऽङ्कः रतिः – * अजउत्त, सुदं मए तुह्माणं विवेअसमदम पहुदीणं च एक्कं उप्पत्तित्थाणं ति । - कामः – आः प्रिये, किमुच्यत एकमुत्पत्तिस्थानमिति । ननु जनक एवास्माकमभिन्नः । तथाहि --- संभूतः प्रथममेहेश्वरस्य सङ्गान्मायायां मन इति विश्रुतस्तनूजः । त्रैलोक्यं सकलमिदं विसृज्य भूयस्तेनाथो जनितमिदं कुलद्वयं नः १७ तस्य च प्रवृत्तिनिवृत्ती द्वे धर्मपल्यौ । तयोः प्रवृत्त्यां समुत्पन्नं महामोहप्रधानमेकं कुलम् । निवृत्त्यां च द्वितीयं विवेकप्रधानमिति ।

  • आर्यपुत्र, श्रुतं मया युष्माकं विवेकशमदमप्रभृतीनां चैकमुत्प-

त्तिस्थानमिति । अस्मत्खामिवल्लभैर्महामोहस्य प्रियैराप्तैरभियुज्यमानाः प्रतियोधत्वेन निरूप्यमाणा नरपतेर्विवेकस्य राज्ञो मन्त्रिणोऽमाया अधर्ममेव महामोहाभिमतमेवाश्रयिष्य- न्ते ॥ – रतीत्यादि । – काम इत्यादि । किमुच्यत इति । किमियाक्षेपे । उत्पत्तिस्थानमेकं न भवतीत्यर्थः । तदेवाह – नन्विति । नन्वित्यामन्त्रणे एवका- रेण जननीव्यावृत्तिः ॥- संभूत इति । महेश्वरस्य ब्रह्मणः प्रथमं सङ्गान्माया- यां तनूजो मन इति विश्रुतः तेन मनसा इदं त्रैलोक्यं सकलं स्थावरजङ्गमात्मकं विरच्य निर्माय भूयो बहुतरम् । विचित्रमित्यर्थः । अदो नः कुलद्वयं जनितम् । तथा- च श्रुतिः - 'तुच्छथेनाभ्वपिहितं यदासीन्मसस्तन्महिना जायतैकम् । कामस्त- द्ग्रे समवर्तताधि मनसो रेतः प्रथमं यदासीत्' इति । 'नैवेह किंचनाग्र आसीत् । मृत्युनैवेदमावृतमासीत् । अशनायया अशनाया हि मृत्युस्ततो कुरुतात्मन्विद्धम्' इति च ॥ १७ ॥ तस्येत्यादि । तस्य मनसः प्रवृत्तिर्नाम औदासीन्यस्य प्रच्युति- रात्मधर्मो मनोधर्मो वा । निवृत्तिरौदासीन्य औपचारिको धर्मः । अविद्याशवलित- आशाप्यमानाः नरपतिर्महा मोहस्तन्मन्त्रिणमधर्मम् । अधर्ममूला मोहादयः । [रति:- श्रुतं गया ग्रुष्माकं शमदमविवेकप्रभृतीनां चैकमुत्पत्तिस्थानमिति । ] — आः आयें, एकमपि कर्तृत्वादाश्चर्यग् । तदेवाह — तथाहीति | संभूत इति । ईश्वरस्य परमा- त्मनः सङ्गात्संवन्धान्मायायामविद्यायां मन इति तनूजः पुत्रो विश्रुतो लोकप्रसिद्धः प्रथममादौ संभूत उत्पन्न: । तेन मनसेदं सकलं त्रैलोक्यं विसृज्य विशेषतः सङ्घा अथोऽनन्तरं भूयोभूयो वारंवारमिदं प्रसिद्धं नोऽस्माकं कुलद्वयं जनितं महामोहप्रधानं १ 'समदमविवेअपहुदीणं' इति पाठः । २ 'प्रथममिहेश्वरस्य' इति पाठः । -