पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रिका-प्रकाशाख्यटीकाद्वयोपेतम् २७ कारचित्तैकसाध्यत्वादीषत्करसमुन्मूलना एव । अपि च स्त्रिय एवा- मीषां कृत्यास्तेनैतेऽस्मद्गोचरा एव वर्तन्ते । यतः - सन्तु विलोकनभाषणविलासपरिहासके लिपरिरम्भाः । स्मरणमपि कामिनीनामलमिह मनसो विकाराय ॥ १६ ॥ विशेषतश्चैते मदमात्सर्यदम्भलोभादिभिरस्मत्खामिवल्लभैरभियु- ज्यमाना नरपतिमन्त्रिंणोऽधर्ममेवाश्रयिष्यन्ते । १] तत्परित्याग इत्यर्थः । यद्वा 'आस उपवेशने' इत्यस्माद्धातोर्वेदान्तवाक्येषूपवेशनम्। वेदान्तवाक्य विचारोद्योग इत्यर्थः । यद्वा आसनं सिद्धासनपद्मासनादिकं प्रातरा- न्तरवायूनां प्राणादीनामा समन्तात्सर्वनाडीषु निरोधः । सुषुम्नायां प्रवेशनमिति यावत् । प्राणादीनां मनसः सह संयमनं प्राणायामः । प्रत्याहारो मनसो विषया- दिभ्यो निवृत्तिः । ध्यानमात्मचिन्तनम् । धारणं तस्यैव चिन्तनस्य कंचित्कालम- नुवृत्तिः । समाधिः सम्यगाभ्यानम् । ध्येयवस्तुनि मनसचिरकालानुवृत्तिः । सजा- तीय विजातीयप्रत्ययतिरस्कारेण निर्विकारचित्तैकसाध्यत्वात् । यमादीनां चित्तवि- कारस्यास्मदधीनत्वात्तत्समुन्मूलनं सुकरमेवेति भावः । ईषत्करं सुकरं समुन्मूलनं येषां ते तथोक्ताः । ‘ईषदुः सुषु- 'इत्यादिना खल् प्रत्ययः । अपिच स्त्रिय एवे- त्यादि । अमीषां यमादीनां स्त्रियः कान्ता एव कृत्या डाकिन्यः | संहर्घ्य इत्यर्थः । तेन कारणेनैते यमादयोऽस्मद्रोचरा एव । साधितप्राया एवेत्यर्थः । अत्र हेतुमाह - यत इति । – सन्त्विति । सन्तु | तिष्ठन्तु नामेत्यर्थः । विलोकनं नायिका- नायकयोरन्योन्यदृष्टिमेलनम् । भाषणमन्योन्यसंलापः । विलासो नायकस्य पुरस्ता- लीलाप्रदर्शनम् । परिहासश्चतुरनर्मोक्तिः। केलिर्जलक्रीडादिः । परिरम्भ आलिङ्गनम्। इह नायके पुरुषे शान्तरसप्रधाने मनसो विकाराय स्मरणमेवालं समर्थम् । अस्मि नाटके प्रधानभूतः शान्तरसो विष्कम्भे सूचित इति ध्येयम् ॥ १६॥ – विशेषतः । किंचेत्यर्थः । एते यमनियमादयः । मदः परानभिज्ञत्वेन मनोगवः । मात्सर्ये पर- गुणेर्ष्या | लोभः परद्रव्यस्पृहा । आदिशब्देन प्रमादालस्यविप्रलिप्सादयो गृह्यन्ते । - रमाह — स्त्रिय एवेति । अस्मद्रोचरा अस्मदधीनाः ॥ अधीनत्वे हेतुमाह — यत इति । सन्विति । बिलोकनमवलोकनम्, भाषणं मधुरालापः, बिलासो विभ्रमः, परिहासकेलिर्नर्नकथाक्रीडा, परिरम्भ आलिङ्गनन्, इमानि सन्तु तिष्ठन्तु । कामिनीनां स्मरणमपि मनसो विकाराय विकारं कर्तुमलं समर्थम् ॥ १६ ॥ किं बहुना । तेऽस्मद्वशे स्थास्यन्त्येवेत्याह-विशेषतश्चेति । अभियुज्यमाना- १ 'दम्भादिभिः' इति पाठः | २ 'मन्त्रिणमधर्ममेवाश्रयिष्यन्ति' इति पाठः ।