पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६ प्रबोधचन्द्रोदयम् [प्रथमोऽङ्कः H- रतिः - *अजउत्त, एव्वं णेदं । तहवि महासहाअसंपण्णो संकिद- वो अरादी। जदोअस्स जमणि अमप्पमुहा अमच्चा महाबलाः सुणीअन्दि । कामः – प्रिये, यानेतान्राज्ञो विवेकस्य बलवतो यमांदीनष्टा- बमात्यान्पश्यसि त एते नियतमस्माभिरभियुक्तमात्रात्प्रागेव विघ- टिप्यन्ते । तथाहि — - । अहिंसा कैव कोपरय ब्रह्मचर्यादयो मम । लोभस्य पुरतः केऽमी सत्याऽस्तेयापरिग्रहाः ॥ १५ ॥ यमनियमासनप्राणायामप्रत्याहारध्यानधारणासमाधयस्तु

  • आर्यपुत्र, एवं नैतत् । तथापि महासहायसंपन्नः शङ्कितव्यो-

ऽरातिः । यतोऽस यमनियमप्रमुखा अमात्या महाबलाः श्रूयन्ते । निर्वि- १ ‘णेदं । तथावि' इति पाठः । ३ ' मात्राागेव' इति पाठः । रतिरित्यादि । आर्यपुत्र, एवं नैतत् । एव्वं णेदमित्यत्र शौरसेनी भाषा । तथापि महासहायसंपन्नः शङ्कितव्योऽरातिः । यतोऽस्य यमनियमप्रमुखा अमात्या म हावलाः श्रूयन्ते । एतावत्स्पष्टम् ॥ - यानेतानित्यादि । विवेकस्य बलसंप- नस्य यमादीनमात्यान्पश्यसि जानाति । यमादिभिरमायैर्बलवत्त्वं विवेकस्यालोच- यसि । यद्वा बलवत इलमात्य विशेषणम् । अभियुक्तमात्रादेव । अभियोगो वैर- प्रतियोगित्वम् । आग्रह इति यावत् ॥ — अहिंसेत्यादि । कोपस्य पुरतः कैवा- हिंसा । अहिंसायाः खरूपमेव नास्तीत्यर्थः । हिंसा नाम परप्राणवियोजनं, तदभावो- Sहिंसा । मम । कामस्येत्यर्थः । लोभो नाम परद्रव्यापहारेच्छा । सत्यं यथार्थवादि- त्वम्। अस्तेयं चौर्याभावः । अपरिग्रहो दुष्प्रतिग्रहाभावः ॥ १५॥ - यम इत्यादि | यमः कायचेष्टानिरोधः । नियमो मनश्चेष्टानिरोधः । आसनं धर्माधर्मक्षेपणम् । मदीया ये वाणास्तेषां श्रमः क इव । न कोऽपीत्यर्थः ॥ १४ ॥ [ रतिः — आर्यपुत्र, एवं नन्वेतत् तथापि महासहायसंपन्नः शङ्कितव्योऽरातिः । यतोऽस्य यमनियमप्र- मुखा अमात्या महाबलाः श्रूयन्ते । ] – अभियुक्तमात्रा: ( मात्रात्प्रातिकूल्यामा- गेव) कृताभियोगा द्रागेव झटित्येव विघटिष्यन्ते विवेकाद्भेदं प्राप्स्यन्ति ॥ — अहिं सेति । कोपस्याहिंसा कैव । न कापीत्यर्थः । मम कामस्य ब्रह्मचर्यादयः के । न केऽपीत्यर्थः । अमी सत्यास्तेयापरिग्रहा लोभस्य पुरतः के । न केऽपीत्यर्थः । एतावता एते सुखेन जेतुं शक्या इति भावः ॥ १५ ॥ - यमादेः किं कार्यमत आह—— यमेति । ईषत्करं सुकरं समुन्मूलनं नाशो येषां ते । एतेषां विजये उपायान्त- । - - २ 'यमादीनमात्यान्' इति पाठ: - ।