पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१] चन्द्रिका-प्रकाशाख्यटीकाद्वयोपेतम् २९ रतिः — अज्जउत्त, जइ एव्वं ता किंणिमित्तं तुह्माणं सोअराणं वि परोप्परं एआरिसं वैरम् । कामः – प्रिये, एका मिषप्रभवमेव सहोदराणा- मुज्जृम्भते जगति वैरमिति प्रसिद्धम् । पृथ्वीनिमित्तमभवत्कुरुपाण्डवानां तीव्रस्तथा हि भुवनक्षयकृद्विरोधः ॥ १८ ॥ सर्वमेवैतज्जगदस्माकं पित्रोपार्जितं तच्चास्माभिस्तातवल्लभतया

  • आर्यपुत्र, यद्येवं तत्किंनिमित्तं युष्माकं सोदराणामपि परस्पर-

मेतादृशं वैरम् । ब्रह्मस्वरूपात्प्रवृत्तिनिवृत्त्योर्मनसः सहचरत्वात् । भोगसाधनत्वाद्धर्मपत्नीत्वव्यप- देशः । शेषमतिरोहितार्थम् ॥ – रतिः । एवमित्यर्धाङ्गीकारे ॥ – एकामिषेति । एकामिषमेकभोग्यम् । आमिषशब्दो लक्षणया भोग्यवस्तुपरः । तत्प्रभवं वैरं सोदराणामेव । सामान्यमुक्त्वा विशेषत एकामिषप्रभवत्वं विरोधस्य सदृष्टान्तमा- ह— कुरुपाण्डवानामपि पृथ्वीनिमित्तम् । पृथ्वीरूपं निमित्तमवलम्ब्येत्यर्थः । यद्वा क्रियाविशेषणमेतत् । तथाहि सोदराणामेव न भवति अपि तु भुवनस्य राजलो- कस्यापि क्षयकृदभूदित्यर्थः ॥ १८ ॥ प्रकृते योजयति — सर्वमेवेत्यादि । अ- स्माकमिति । प्रवृत्तिसन्तानस्येत्यर्थः । पित्रा मनसा । अस्माभिः कामप्रभृतिभिः । तातवल्लभतया मनोवल्लभतया । तेषां निवृत्तिसन्तानरूपाणां । विरलः काचित्कः । योगिजनैकनियतत्वादित्यर्थः । कथंपुनर्भवद्भिरेव सर्वस्वमाक्रान्तमिति चेत्तत्राह- - विवेकप्रधानं च ॥ १७॥ तदेवाह — तयोरिति । [ रतिः – आर्यपुत्र, यद्येवं तत्किं निमित्तं युष्माकं सहोदराणामपि परस्परमेतादृशं वैरन् । ] — सहोदराणामपि दृष्टमस्ति वैरमित्याह – एकामिषेति । सहोदराणां गोत्रजानामेकामिषप्रभवमेव "वैरं समुज्ज़- न्भते प्रकटीभवतीति जगति प्रसिद्धम् । अत्र दृष्टान्तमाह । हि निश्चितं कुरुपा- ण्डवानां पृथ्वीनिमित्तं यथास्यात्तथा तीव्रो दारुणः तथा प्रसिद्धो भुवनक्षयकद्भुवन- नाशको विरोधोऽभवत् ॥ १८ ॥ — एकामिषप्रभवत्वं दर्शयति — सर्वमेवेति । १ 'दम्मत्पित्रा' इति पाठः | २ 'स्तावहम' इति पाठः । ४