पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबोधचन्द्रोदयम् २३६ [षष्ठोऽङ्कः । यथा निगूढमस्मदभिप्रायमुपनिषद्विवेकेन सह बोधयितव्या । त्वया च पुरुषे वस्तव्यमिति । ( विलोक्य) एषा देवी विवेकपुरुषाभ्यां नाति- दूरे वर्तते । यावदुपसर्पामि ( उपसृत्य उपनिषदं प्रति जनान्तिकम् ) देव्या विष्णुभक्त्या समादिष्टं यथा संकल्पयोनयो देवता भवन्ति । मया च समाधानेन विदितं तथा आपन्नसत्त्वा भवतीति । तत्र च ॠरसच्या विद्या नाम कन्या त्वदुदरे वर्तते प्रबोधोदयश्च । तत्र योग्यार्थस्मृतिरूपेति वाच्यम् । रामायणभारतकथादौ कथामात्रविवक्षया कथिते- ऽपि परप्रतिपत्तौ जातायां योग्यार्थस्मृतिरूपलक्षणानां वदतातिसाहसमनुष्ठितम् । अत एव योग्येतरान्वितखार्थपरं पदकदम्बकं वाक्यमिति मतमेव सम्यगिति ध्ये- यम् ॥ २७ ॥ तत्र चेति । तत्र तयोरपल्ययोर्मध्ये क्रूरखभावा विद्या नाम रूप त्यम् । तस्याः क्रूरत्वं महामोहकुलविवेककुलयोर्नाशकत्वात् । प्रवोधचन्द्रश्च लदु- दरे वर्तत इत्यन्वयः । तत्र तयोर्मध्ये विद्या रुयपत्यं सङ्कर्षविद्या । प्रणवोपनि- षदा मनसि संक्रामयिष्यसि स्थापयिष्यसि । तथाचाथर्वश्रुतिः——'अथ हैनं पि- प्पलादोऽङ्गिरा सनत्कुमारं पप्रच्छ' इत्यारम्य 'व्यापनाव्यापी महादेवः' इत्यन्तेन खण्डद्वयेन प्रणवस्य द्वितीयतृतीयमात्राप्रशंसा कृता । तृतीयखण्डे तुरीयमात्रा सङ्कर्षविद्येत्युक्तम् । तथाच तृतीयः खण्डः – 'पूर्वास्याजाचरितं द्वितीया स्वप्नं तृतीया सुषुप्तं चतुर्थी तुरीयामात्रा ब्रह्मभवत्येष सङ्कर्षः । तस्माद्ध्यानादौ प्रयुज्यते मुच्यत इत्यासत्यं' इत्यन्ताथर्वशिखोपनिषत् । अस्यामुपनिषदि प्रण- वस्य चतुर्थमात्राग्निदेवतेत्युक्तम् । अतश्च संकर्षविद्यया विद्यां मनसि संक्राम यिष्यसीत्यनेन मनोदाहकत्वं सङ्कर्षविद्यायाः प्रतीयते । सङ्कर्षविद्यानुसंधान- महिम्ना दग्धमनसो जीवन्मुक्ता इति गम्यते । विद्यां मनसीत्यनेन संक्रमणोत्था 1 यथा स्यात्तथा विबेकेन सहोपनिषदस्मदभिप्रायं बोधयितव्येति योजनीयम् । गुप्तास्स. दीयवार्तोपनिषद्विवेकयोर कथनीवेत्यर्थः । किं बोधयितव्येत्याह- - त्वया चेति पुरुषे जीवे । जनान्तिकं लोकसमक्षम् । समादिष्टमर्थमाह — यथेति । संकल्पयोनयः संकल्पो मनसो व्यापारः स एव योनिरुत्पत्तिकारणं यासां ताः भवन्ति । संकल्प- मात्रादेवोत्पत्तिर्न मैथुनेनेति भावः । 'ब्रह्म वा इदमग्र आसीत्' इत्यारभ्य ‘इदं सर्वमभवत्’ इत्यन्तेन संकल्पप्रभवत्वं दर्शितं बृहदारण्यके । त्वया कथमेत ज्ज्ञातमित्याह –मयेति । समाधानेन । योगसामर्थ्यजन्यध्यानेनेत्यर्थः । आपन्नसत्त्वा वृतगर्भा स्त्री । विवेकसंकल्पादेव गर्भाधानमिति भाव: । क्रूरसत्त्वा क्रूराभिप्राया जगद्विनाशकत्वात् । प्रबोधोदयश्च । तत्र मनसि सङ्कर्षणविद्यया योगेनाकर्षणरूपया