पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६] चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतम् २३५ श्रुत्वा तत्त्वमसीति बाधितभवध्वान्तं तदात्मप्रभं शान्तं ज्योतिरनन्तमन्तरुदितानन्दः समुद्द्योतते ॥ २७ ॥ पुरुषः– (सानन्दम् ।) श्रुतमर्थं परिभावयति । - (ततः प्रविशति निदिध्यासनम् ।) निदिध्यासनम् – आदिष्टोऽस्मि भगवत्या विष्णुभक्त्या । — P श्रुत्या विविच्य विभागं कृत्वा । अहंप्रत्ययेऽयमन्तःकरणांशः अयमात्मांश इति विभज्येत्यर्थः । तदनन्तरं तत्त्वानां स्थूलानां विलये सूक्ष्मेष्ववस्थानेषु पञ्चीकृ- तानां भूतानामुपसंहारेण स्वात्मना प्रकृतिरूपेणावस्थाने कृते सति । आरोपाप- वादाभ्यां तत्त्वंपदार्थयोः शोधने कृते सतीति यावत् । पुनस्तदन्तरमात्मनि प रमात्मनि लमर्थे जीवात्मनि च ज्ञाते संलक्षिते सति । ततः किं वृत्तमिति तदाह - श्रुत्वेत्यादि । तत्त्वमसीति वाक्यश्रवणानन्तरं वाक्यजनितेनापरोक्षज्ञानेन बा- धितभवध्वान्तं निर्मूलितसंसाराज्ञानं तदात्मप्रभं तत्प्रसिद्धम् । यद्वा तत्तदानीमुप- देशसमये आत्मप्रभं स्वयंप्रकाशं, शान्तमुदासीनं, ज्योतिस्तेजोरूपं, अनन्तमप- रिच्छिन्नं, अनन्तरुदितानन्दः अन्तः अन्तःकरणसाक्षात्कारवृत्तौ उदितानन्दः प्रतिफलित स्वरूपः सन् एष जीवः समुयोतते । सम्यक्प्रकाशत इत्यर्थः । अतश्च सर्वेषां देवानां वाक्यैकवाक्यतया तत्त्वमसीति महावाक्येनान्वयः । महावाक्ये - नान्वितानां सर्वासामुपनिषदामुपक्रमोपसंहाराभ्यासापूर्वताफलार्थवादोपपत्तिभिः षड्विधैस्तात्पर्यलिङ्गैर्ब्रह्मप्रतिपादकत्वमेव । न च शब्दानां वाक्यैकनियता व्युत्पत्तिः सिद्धपदानामपि व्युत्पत्तिदर्शनात् । 'प्रभिन्नकमलोदरे मधूनि मधुकरः पिबति' इ- त्यादौ तु समभिव्याहारात् व्युत्पत्तिदर्शनात् । किंच विधिरत्र पदवृत्तिरूपा लक्षणा तत्त्वमसीति वाक्यं श्रुत्वा तत् आत्मप्रभं स्वप्रकाशं ज्योतिरन्तर्मनोवृत्तावखण्ड- वाक्यार्थरूपं समुद्द्योतते प्रकाशते । तथोक्तं छान्दोग्ये——'तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो’ इति ज्योतिषो विशेषणानि । अनन्तं वस्तुतो देशतः कालत श्चेति त्रिविधपरिच्छेदशून्यं, बाधितं तिरस्कृतं भवः संसारस्तस्य ध्वान्तं मूलका- रणमज्ञानं येन, तथा शान्तं निरुपद्रवं उदितानन्दमनस्तमितस्वरूपम् । तत्त्वंपदार्थ- प्रकारमाह । कस्मिन्सति । एषोऽहंकारः नास्मि इति चित्तेन सार्धं मनसा सह वि. विच्य पृथक्कृत्वा परितः समन्तात् । सर्वेपामित्यर्थः । सर्वेषां तत्त्वानां विलये विनाशे कृते सति । अर्थाद्विवेकत: तत्त्वंपदार्थशोधनादसंभावनादिनिवृत्तौ तत्त्वमसीत्यादिमहा. वाक्यावधारणं निश्चयरूपं भवतीति भावः ॥ २७ ॥ परिभावयति विचिन्तयति । श्रवणमनने निरूपिते, इदानीं निदिध्यासनप्रवेशमाह -तत इति । नितरां गूढं गुप्तं