पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६] चन्द्रिका-प्रकाशाख्यटीकाद्वयोपेतम् २३७ प्रबोधचन्द्र पुरुषे विद्यां सङ्कर्षविद्यया मनसि संक्रामयिष्यसि । समर्प्य वत्सविवेकेन सह मत्समीपमागमिष्यसीति । उपनिषत् — यदादिशंति देवी ( इति विवेकमादाय निष्क्रान्ता । ) (निदिध्यासनं पुरुषो विशति ।) पुरुषः– (ध्यानं नाटयति) (नेपथ्ये आवर्यमावर्यम् ।) उद्दामद्युतिदामभिस्तडिदिव प्रद्योतयन्ती दिशः प्रत्यग्रस्फुटदुत्कटास्थि मनसो निर्भिद्य वक्षस्थलम् । अविद्यानिवृत्तिरूपा मुक्तिरुक्ता | प्रबोधचन्द्रं पुरुषे समलनेन स्वरूपावस्था- नरूपा मुक्तिरुक्ता | सङ्घर्षणविद्ययेति पाठे यया विद्यया संकर्षणो बलभद्रो देव- कीगर्भाद्रोहिणीगर्भं प्रापितस्तया विद्ययोपनिषद्गर्भाद्विद्या कन्यास्ति स्थापिता, प्र- वोधः पुरुषः स्थापित इति सा विद्या प्रणवात्मिकैवेति ध्येयम् ॥ उपनिष दित्यादि । देवी विष्णुभक्तिरुपनिषद्विवेकमादाय निष्क्रान्तेत्यनेन संभोगस्य नाटके निरूपयितुमनौचित्यमित्युक्तम् । अनेनोपनिषद्विवेकयोर्निर्गमनेन स्वरू पज्ञाने संजाते वेदान्तानामपि प्रपञ्चान्तः पातेन तद्वत्तन्निवृत्तिरिति गम्यते । न च वेदान्तानामपि मायिकत्वेनासत्यत्वात्सत्यखरूपावगमकत्वं न युज्यत इति वाच्यम् । असल्यस्यापि दर्पणप्रतिबिम्बस्य सत्यबिम्बगमकत्व दर्शनादित्यलमतिप्र- सङ्गेन ॥ – उद्दामेति । उद्दामद्युतिदामभिः दीर्घतरकान्तिरज्जुभिः तडिदिव विद्युदिव दिशः प्रकाशयन्ती । प्रत्यग्रस्फुटदुत्कटास्थि प्रत्यप्रमभिनवं यथा तथा विद्यया विद्यामात्मसाक्षात्काररूपां संक्रामयिष्यसीति योजना | श्रूयते हि संकर्षणवि द्यया संकर्षणो देवकीजठराद्रोहिणीजठरं प्रापित इति श्रीमद्भागवते । श्रवणमनने निरूपिते इत्युक्तं तत्र श्रवणं नामाद्वैते ब्रह्मण्युपनिषदां तात्पर्यावधारणं, मननं नाम युक्तिभिरनुचिन्तनम् । एते अर्थान्निरूपिते । निदिध्यासनं नाम बिजातीयप्रत्ययतिर- स्कारेण सजातीयप्रत्ययप्रवाहीकरणं तदप्यर्थादेवेति ज्ञातव्यम् । विद्याया अन्तःकरण वृत्तिरूपत्वान्मनसि संक्रमणं युक्तमिति भावः । ध्यानं नाटयतीति । निदिध्यासनं विचारविशेषात्मकं स च विचारविशेषो ध्यानात्मा ध्यानरूपं । निदिध्यासनं पुरुषं प्र- बिश्य नाटयति विस्तारयति । उद्दामेति । इयं कन्या विद्यारूपा सहसान्तर्धानं भजति तिरोधानं प्राप्नोति । कीदृशी कन्या | मनसो वृक्षःस्थलं निर्भिय निर्गतां इति शेषः । १ ‘प्रबोधोदयं च पुरुषे सम्यग्विवेकेन सह । ततो मत्सकाशमागमिष्यसि' इति पाठः । २ 'पुरुपं प्रविशति' इति पाठः । ३ ' प्रत्यक्षस्फुट' इति पाठः ।