पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६] चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतम् षष्ठोऽङ्कः । (ततः प्रविशति शान्तिः।) १९९ शान्तिः– आदिष्टास्मि महाराजविवेकेन । यथा वत्से, विदि- तमेव भवत्या किल । अस्तं गतेषु तनयेषु विलीनमोहे वैराग्यभाजि मनसि प्रशमं प्रपन्ने । क्लेशेषु पञ्चसु गतेषु समं समीहां तत्त्वावबोधमभितः पुरुषस्तनोति ॥ १ ॥ - ततः प्रविशतीत्यादिना प्रधानपात्रप्रवेशनार्थं प्रवेशकः प्रस्तौति । अत्राज्ञां गृ.. हीत्वा पात्रप्रवेशः । अथ निर्वहणसन्धिः प्रस्तूयते – यथा किलेत्यादि । 'बी- जवन्तो मुखाद्यर्था विप्रकीर्णा यथायथम् । ऐकार्थ्यमुपनीयन्ते यत्र निर्वहणं हि तत् ॥' इति । मुखसन्ध्यादिबीजानां निजप्रकारप्रक्षिप्तानामेकार्थयोजनमित्यर्थः । तदेवाह — अस्तं गतेष्वित्यादि । तनयेष्वस्तं गतेषु सत्सु विलीनः क्वचिल्लीनो मोहो मोहनामकस्तनयो यस्य मनसस्तस्मिन् । अतएव वैराग्यं भजतीति वैरा- ग्यभाक् तस्मिन्मनसिं प्रशमं निर्विकारत्वं प्रपन्ने प्राप्ते सति । तदनन्तरं पञ्चसु क्लेशेषु गतेषु सत्सु अविद्यास्मितारागद्वेषाभिनिवेशास्तमोमोहमहामोहतामिस्रान्ध- तामिस्रा इत्यपरपर्यायेषु समं युगपगतेषु सत्सु । अयमर्थः । वैराग्यभाजि । अत्र वैराग्यं नाम विरोधी कश्चन भावरूपधर्मः । अतः क्लेशप्रहाणे न पौनरु- त्यम् । विलीनमोह इत्यत्र मोहस्य कचिन्निलीनोक्तेः । अभितस्तत्त्वावबोधं प्रतीत्यर्थः । 'अमितः परितः -' इत्यादिना द्वितीया । समीहामिच्छां तनोति तत्त्वावबोधोदयार्थे उपयुक्ते । अनेनैतदुक्तं भवति । गर्भसन्धौ विमर्श- सन्धौ च विषयाणां मिथ्यात्वनिरूपणं तद्गतस्नेहनिरासो वैराग्योत्पत्तिः पञ्चक्लेश- पञ्चमेऽङ्के वैराग्योत्पत्तिमभिधायेदानीं षष्ठेऽके प्रबोधोत्पत्तिमभिधातुं जीवन्मुक्तिमु- पक्रम्य तस्याः क्रमं दर्शयन् शान्तिप्रवेशं प्रस्तावयति – तत इति । शान्तिर्नाम बाह्येषु वस्तुष्वन्तःकरणोपरतिः । आदिष्टास्म्याशप्तास्मि । विदितमेव ज्ञातमेव । अस्तंगतेष्विति । तनयेषु कामादिष्वस्तं गतेषु मृतेषु सत्सु वैराग्यं भजते तद्वैराग्य- भाक् तस्मिन् रागशून्ये विशेषेण लीनो मोहो यस्मात् तादृशे मनसि प्रशममात्य- न्तिकं शमं प्रपन्ने प्राप्ते सति पञ्चसु क्लेशेषु । अविद्यास्मितारागद्वेषाभिनिवेशाः केशा:, मिथ्याज्ञानमविद्या, बुद्ध्यात्मनोरैक्याध्यासोऽस्मिता, विषयेच्छा रागः, ससाधने दु:खेऽप्रीतिर्द्वेषः, मरणाद्भयमभिनिवेशः, तेषु समं समकालं समीहां वासनां गतेषु