पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबोधचन्द्रोदयम् मनः – यदाज्ञापयति देवी । 20 [पञ्चमोऽङ्कः ( इति निष्क्रान्ताः सर्वे । ) इति प्रबोधचन्द्रोदये वैराग्यप्रादुर्भावो नाम पञ्चमोऽङ्कः । नदीमवतराम इति । एतदुक्तं भवति विरक्तस्यापि कर्म न त्याज्यमिति । तदुक्तं योगियाज्ञवल्क्येन–‘ज्ञानिनोऽज्ञानिनो वापि यावद्देहस्य धारणम् । तावद्वर्णा- श्रमाप्तेषु कर्तव्यं कर्म मुक्तये ॥ इति । निष्कान्ताः सर्वे ॥ इति श्रीमद्राजाधिराजपरमेश्वरश्रीवीरप्रतापश्रीकृष्णरायमहाराजसा- म्राज्यधुरन्धरश्री साल्व तिम्मदण्डनायकभागिनेयनाण्डिल्लगोप- मन्त्रिशेखरविरचितायां प्रबोधचन्द्रोदयव्याख्यायां चन्द्रिकासमाख्यायां पञ्चमोऽङ्कः ॥ ५ ॥ त्विति । ज्ञातीनां कामादीनामुदकदानाय जलाञ्जलिदानाय | तिलाञ्जलिंदाने कृते निरन्वयविनाशो भविष्यतीति भावः । अवतरामो गच्छामः । इति प्रबोधोदयव्याख्याने प्रकाशाख्ये वैराग्यप्रादुर्भावो नाम पञ्चमोऽङ्कः ॥ ५ ॥