पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०० प्रबोधचन्द्रोदयम् [षष्ठोऽङ्कः तद्भवती त्वरिततरं देवीमुपनिषदमनुनीय मत्सकाशमानयत्विति । शान्तिः– (विलोक्य ) ममाम्बा सहर्ष किमपि मन्त्रयन्ती इत - एवागच्छति । (ततः प्रविशति श्रद्धा ) श्रद्धा — अये, अद्य खलु राजकुलमारोग्ययुक्तमालोक्य चिरेण मे पीयूषेणेव लोचने पूर्णे | असतां निग्रहो यत्र सन्तः पूज्या यमादयः । आराध्यते जगत्वामी वश्यैर्देवानुजीविभिः ॥ २ ॥ शान्तिः— (उपसृत्य) अम्ब, किं मन्त्रयन्ती प्रस्थिता । श्रद्धा—(अये अद्येत्यादि पठति ।) निरासश्च प्रतिपादितस्तेषां यथायथं विप्रकीर्णानां प्रबोधचन्द्रोदयरूपैककार्यान्वयो निरूपित इति । यथा रत्नावल्यां सागरिकारत्नमालावसुमतीबाभ्रव्यादीनामार्तानां मुखसन्ध्यादिषु विप्रकीर्णानां वत्सराजैककार्यार्थत्वम् । वसुभूतिः सागरिकां निर्वर्ण्य अपवार्य ‘बाभ्रव्यसदृशीयं राजपुत्री' इत्यादिना दर्शितमिति निर्वहण संधिस्तद्वदत्रापीत्यर्थः । तदङ्गानि तु–‘सन्धिर्निरोधो ग्रथनं निर्णयः परिभाषणम् । प्रसादानन्तसमयाः कृतिर्भाषोपहने । पूर्वभारपसंहारौ प्रशस्तिश्च चतुर्दश इति । एतेषां लक्षणं सोदाहरणमुच्यते । अस्तं गतेध्वियारभ्य 'विषयममतातङ्क- पङ्कं तरन्लि’त्यन्तो निर्वहणसन्धिः । ‘अतं गतेष्वि'त्यादिना क्लेशेन पुनर्बीजोपग-- मनप्रतीतेः सन्ध्याख्यं निर्वहणसन्धेः प्रथममङ्गम् । 'सन्धिवजोपगमनं' इति लक्षणात् ॥ १ ॥ मत्सकाशमानयेत्यादिष्टास्मीत्यन्वयः । विलोक्येत्यारभ्य अद्ये- संस्काररूपतां प्राप्तेषु पुरुष: क्षेत्रज्ञोऽभितः सर्वत्र स्त्रेषु परेषु तत्त्वावबोधं स्वस्वरूपाव- बोधं तनोति विस्तारयति । तदुक्तम् – 'यो न हृष्यति न द्वेष्टिं न शोचति न काङ्क्षति” इति ॥ १ ॥ त्वरिततरमतिशीघ्रम् | अनुनीय सप्रेम मानयित्वा । मन्नयन्ती विचार- यन्ती । राजकुलं राजगृहं । पीयूषेणेवामृतेनेव । वस्तुतत्त्वमुपदिशति—असतामिति । यत्र यस्मिन् राजकुले असतां मोहादीनां निग्रहो दण्डः, यत्र यमादयः सन्तः विवेकानुगामित्वात्पूज्याः, यत्र जगत्खामी नारायणो वश्यैः शमादिभिः, करणैर्देव- मीश्वरमनुजीवन्ति ते देवानुजीविनो जीवास्तैः कर्तृभिः । आराध्यते पूज्यते ॥ २ ॥ अये अद्येति । अये, अद्य खलु राजकुलमित्यादि । कीदृशी किंप्रकारा स्वामिनः