पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबोधचन्द्रोदयम् टभोद्दण्डकण्ठास्थिकूटस्फुटोन्मार्जितोद्दामचक्रस्फुरज्ज्योतिरुल्लासितोद्दा- १६४ [चतुर्थोऽङ्कः प्रौढदोर्दण्डविभ्रान्तमन्थाचलक्षुब्धदुग्धा- मदोर्दण्डखण्डेन्दुचूडाप्रिय म्बुधिप्रोत्थित श्रीभुजवली संश्लेषसंक्रान्तपीनरतना भोगपत्रावलीलाञ्छि- तोरस्थैल स्थूलमुक्ताफलोदारहारप्रभामण्डलस्फुरत्कण्ठवैकुण्ठ भक्तस्य लोकस्य संसारमोहच्छिदं देहि बोधोदयं देव तुभ्यं नमः । (निर्गमनं नाटयित्वा बिलोक्य च) साधुरयमेवास्माकं निवासोचितो देशः । तदत्रैव स्कन्धावारं निवेशयामः । इति निष्क्रान्तौ ।) इति श्रीकृष्ण मिश्रविरचिते प्रबोधचन्द्रोदयनाम्नि नाटके विवेकोद्योगो नाम चतुर्थोऽङ्कः ॥ ४ ॥ प्रबलभुजबलोद्धृतेत्यत्र प्रकटभुजबलभद्रावतार उक्तः । संत्रस्तेत्यादिना नृ- सिंहावतार उक्तः । मन्थाचलो मन्दराद्रिस्तेन क्षुब्धः क्षुमितः । अनेन कूर्माव- तार उक्तः । क्षुब्धशब्दो महाकविप्रयोगात्साधुः । शेषं सुगमम् । इति श्रीमद्राजाधिराजपरमेश्वरश्रीवीरप्रतापश्रीकृष्णराय महाराजसा- म्राज्यधुरन्धरश्रीसाल्वतिम्मदण्डनायकभागिनेयनाण्डिलगो- पमन्त्रिशेखर विरचितायां प्रबोधचन्द्रोदयव्याख्यायां चन्द्रिकासमाख्यायां चतुर्थोऽङ्कः ॥ ४ ॥ त्यस्तस्योद्दण्डः स्थूलो यः कण्ठस्तस्यास्थिकूटमस्थिसंघातस्तस्मिन् स्फुटं स्पष्टमुन्मा- जिंतमुद्दामं ख्यातं यच्चक्रं सुदर्शनं तस्य स्फुरद्दीप्यमानं यज्ज्योतिरतेनोल्लासितोद्दीप्ता उड्डामरा उद्घटा उद्दण्डाश्चत्वारो दोर्दण्डा बाहवो यस्य | खण्डेन्दुचूडो महादेव: प्रियो यस्य । प्रौढोऽतिप्रवलो यो दोर्दण्डो वाहुदण्डस्तेन विभ्रान्तो भ्रमितो यो 'मन्थाचलो मन्दराद्रिस्तेन क्षुब्धो यो दुग्धाम्बुधिर्दुग्धसमुद्रस्तस्मिन् प्रोत्थिताविर्भूता या श्रीलक्ष्मीस्तस्या या भुजवली तत्संश्लेषेणालिङ्गनेन संक्रान्ता पीनस्तनयोराभोगे विशाले स्थले या पत्रावली पत्रलेखा तया लाञ्छितमुरःस्थलं यस्य | स्थूलानि यानि मुक्ताफलानि तेषामुदारश्चासौ हारश्च तस्य प्रभामण्डलेन स्फुरन् कण्ठो यस्य, वै- कुण्ठ परमात्मन्, मक्तस्य लोकस्य भक्तजनस्य यः संसारस्तदुपादानं मोहो भाव. रूपमज्ञानं छिनत्तीति छिद् तं बोधोदयं ब्रह्माद्वैतसाक्षात्कारोदयं देहि । देव स्वप्रकाश, तुभ्यं नमोऽस्तु || नाटयित्वा । भ्रमणविशेषेण दर्शयित्वेत्यर्थः । स्कन्धावारं कटकं `नित्रेशयामः स्थापयामः । इति निष्क्रान्तौ ॥ विवेकसारथिनाविति शेषः || इति श्रीप्रबोधचन्द्रोदयव्याख्याने प्रकाशाख्ये विवेकोद्योगो नाम चतुर्थोऽङ्कः संपूर्णः ॥ ४ ॥ १ 'उल्लासितोड्डामरोद्दण्डदोर्दण्ड' इति पाठः | २ 'स्थलमुक्ता' इति पाठः ।