पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतन् खद्योतखद्योतकिमरितवर्णपीठस्फुरद्वैतविभ्रान्तिसंतानसंतप्तवन्दारु- संसारनिद्रापहारैकदक्ष क्षमामण्डलोद्धारसंभारसंघहृदंष्ट्राग्रकोटिस्फुर- च्छेलचक्र क्रमाकान्तलोकत्रय प्रबलभुजबलोद्धृतगोवर्धनछत्रनिवा रिताखण्डलोद्योजिताकाण्डचण्डाम्बुवाहातिवर्षत्रसद्गोकुलत्राण विस्मा- पिताशेषविश्व प्रभो विबुधरिपुवधूवर्गसीमन्तसिन्दूरसन्ध्यामयूख- च्छटोन्मार्जनोद्दामधामाधिप त्रस्तदैत्येन्द्रवक्षस्तटीपाटनाकुण्ठभाख- न्नखश्रेणिपाणिद्वयत्रस्त विसारिरक्तार्णवा मग्नलोकत्रय त्रिभुवनरिपुकै- न्तेन । जयजयेत्यादराद्विरुक्तिः । स्फुरद्वैतेति । द्वितैव द्वैतम् । प्रज्ञादित्वात्वा- र्थेऽण् । स्फुरत्प्रकाशमानं द्वैतं तत्रोत्पन्ना विभ्रान्तिर्देहात्माध्यासः | संतानः संततिरनादिपरम्परा तया संतप्ताः खिन्ना वन्दारवो भक्तास्तेषां संसार एव निद्रा तस्या अपहारैकदक्षोऽपनोदनप्रवीणः । अनेन बुद्धावतार उक्तः । क्षमामण्ड- लेत्यादिना वराहावतार उक्तः । क्रमाक्रान्तेत्यादिना त्रिविक्रमावतार उक्तः । पादद्वयाम्भोजं चरणयुग्मकमलं यस्य | राजन्तः शोभमाना ये नखास्तेषां द्योताः प्रकाशारत एव खद्योतारतैः किमीरितं शवलितं स्वर्णपीठं यस्य | स्फुरत् द्वैतं भेदस्तस्य या भ्रान्तिस्तस्याः संतानेन परंपरऱ्या संतप्ताः खिन्ना ये वन्दारवो वन्दनशीला भक्तास्तेषां संसाररूपा या निद्रा तस्या अपहारे विनाशे एको मुख्यो दक्षः तस्य संबोधनं हे दक्ष । एवं संबुद्ध्यन्तेषु सर्वत्र ज्ञेयम् । क्षमेति । क्षमामण्डलस्य क्षोणीवलयस्य य उद्धारस्तेन संभाराणां पर्वतादीनां संघट्टः संमदों यस्यां तस्यां दंष्ट्रायकोटौ दंष्ट्राग्रभागे स्फुरच्छैलचक्रं पर्वतसमूहो यस्य । क्रमेण पादविक्षेपेण आक्रान्तं लोकत्रयं येन । प्रकृष्टवलाभ्यां भु- जाभ्यां बलेनोद्धृतमूर्ध्वं धृतं यगोवर्धनरूपं छवं तेन निवारितं नितरां वारितम् । आख- ण्डलेनेन्द्रेणोद्योजिता प्रेरिता अकाण्डेऽसमये चण्डा: प्रलयकालीना अम्बुवाहा मेंघारते- पामतिवर्ष येन, त्रसद्भीतं यगोकुलं तस्य त्राणं रक्षणं तेन विस्मापितमाश्चर्ययुक्तं विश्वं येन । प्रभो अव्याहतैश्वर्यं, विबुधा देवास्तेषां रिपवो दानवास्तेषां यो वधूवर्गः स्त्रीसमू- इस्तस्य यत्सीमन्तेषु सिन्दूरं तदेव संध्यामयूखच्छटा संध्याकालीना मयूखाः किरणा- स्तेषां छटा भास्तस्या उन्मार्जने प्रोन्छने उद्दामं प्रसिद्धं यद्धाम तेजः तस्याधिप आश्रयस्तस्य संबोधने हे अधिप, त्रस्तो लीनो यो दैत्येन्द्रो हिरण्यकशिपुस्तस्य वक्ष- स्तट्याः पाटने विदारणेऽकुण्ठाप्रतिहता भास्वती दीप्तिमती नखानां श्रेणिः पङ्क्ति- यस्य तादृशं यत्पाणिद्वयं तस्मात्त्रस्तमधः पतितं बिसारि प्रसरणशीलं यद्रक्तं तस्या र्णवः सागरस्तस्मिन्नासमन्तान्मनं लोकत्रयं येन | त्रिभुवनस्य रिपुर्य: कैटभो दै- १ 'काण्डाम्बुवाह' इति पाठः |