पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५] चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतम् पञ्चमोऽङ्कः । (ततः प्रविशति श्रद्धा ) श्रद्धा – (विचिन्त्य ।) प्रेसिद्धः खल्वयं पन्थाः । यतः- निर्दहति कुलविशेषं ज्ञातीनां वैरसंभवः क्रोधः । - १६५ वनमिव घनपवनाहृततरुवरसंघट्टसंभवो दहनः ॥ १ ॥ (सासम् ।) अहो दुर्वारो दारुणः सोदरव्यसनजन्मा शोकानलः । यो विवेकजलधरशतैरपि न मन्दीक्रियते । तथाहि- ध्रुवं ध्वंसो भावी जलनिधिमहीशैलसरिता- मतो मृत्योः शीर्य तृणलघुषु का जन्तुषु कथा | तथाप्युच्चैर्बन्धुव्यसनजनितः कोऽपि विषमो विवेकप्रोन्माथी दहति हृदयं शोकदहनः ॥ २ ॥ 2 प्रसिद्धः खल्वयमित्यादि । निर्दहतीति । ज्ञातीनां वैरसंभवः पर- स्परसंघर्षजनितः क्रोधाग्निः सर्वमपि कुलं निर्दहति । झंझावातप्रोज्ज्वलितो दवाग्निः सर्वं वनमदग्ध्वा न शाम्यतीति भावः ॥ १ ॥ तथाहीत्यादि । ध्रुवमिति । अतः मृत्योः पुरोवर्तिनोऽन्तकात्सकाशाज्जलनिधिमही शैलसरितां ध्वंसो भावी भविता | ध्रुवं निश्चयः । अयमर्थः । भूभूधरादिकं सावयवत्वा- त्कार्यं, कार्यत्वादुत्पत्तिमत् उत्पत्तिमत्त्वाद्विनाशीति । तथा च भगवद्वाक्यम्- - इत्थं चतुर्थेऽके विवेकोद्योगमुक्त्वा वैराग्योत्पत्तिं वर्णयितुं पञ्चमेके श्रद्धायाः प्र वेशं स्तौति — ततः प्रविशति श्रद्धेति । परस्परप्रतिस्पर्धिनोः संग्रामं सूचयन्त्याह- प्रसिद्ध इति । अयमित्यनेनोक्तं पन्थानं विशदयति – यतः । निर्दहतीति । वैरा- त्संभव उत्पत्तिर्यस्यैतादृशो यः क्रोधः स ज्ञातीनामशेषं समस्तं कुलं निर्दहति । तत्र दृष्टान्तः । वनः प्रचण्डो य: पवनो वायुस्तेनाहता आन्दोलिता ये तरुवराः स्थूल- वृक्षास्तेषां संघट्टेन संघर्षेण संभवो जन्म यस्य स तादृशो दहनोऽग्निर्वनगिव ॥ १ ॥ उक्तं च महाभारते — 'धूमायन्ते व्यपेतानि संहतानि ज्वलन्ति च । उन्मूलकानीव भान्ति शातयो भरतर्षभ ॥” इति । सोदराणां बन्धूनां व्यसनं मरणं तस्माजन्म यस्य स शोक एवानलोऽग्निः । विवेक एव जलधरा मेघास्तेषां शतानि तैः । एतदेव स्पष्ट- यति – ध्रुवमिति । जलनिधयश्च समुद्राः नही च शैलाः पर्वताश्च सरितः नद्यश्च तासां स्थिराणामपि ध्रुवं निश्चयेन ध्वंसो भावी भविष्यति । अतो हेतोः शीर्य त्रुटितं यत्तणं तद्वल्लघुष्वतितुच्छेषु जन्तुषु प्राणिषु मृत्योर्मरणस्य का कथा । किं वक्तव्यमि १ 'खल्वयं प्रसिद्ध : ' इति विपरीतः पाठः ।